________________
॥२६ सामाचार्याख्यमध्ययनम् ॥ पूर्वस्मिन्नध्ययने ब्रह्मगुणा उक्ताः, ब्रह्मगुणयुक्तस्तु साधुरेव स्यात्, साधुना चावश्यं सामाचारी विधेया, इति हेतोः सामाचारी साधुजनकर्तव्यतारूपामत्राध्ययने कथयामि ।
सामायारिं पवक्खामि, सव्वदुक्खविमुक्खणि।
जं चरित्ताण निग्गंथा, तिन्ना संसारसागरं ॥१॥ अहं तां सामाचारी साधुकरणीयां क्रियां प्रवक्ष्यामि, तामिति कां? यां सामाचारी चरित्वाङ्गीकृत्य निर्ग्रन्थाः संसारसागरं तीर्णाः, संसारसमुद्रस्य पारं प्राप्ताः । कीदृशीं सामाचारी ? सर्वदुःखविमोक्षणी, सर्वदुःखेभ्यो विशेषण मोचिकाम् ॥१॥
पढमा आवस्सिया नामं, बिइया य निसीहिया।
आपुच्छणा य तइया, चउत्थी पडिपुच्छणा ॥२॥ प्रथमा सामाचारी आवश्यकीनाम्नी, यत उपाश्रयान्निर्गच्छन् साधुरावश्यकीति वदति । उपाश्रयाद् बहिनिःसरणमावश्यकी विना न स्यात्, तेनावश्यकीति प्रथमा सामाचारी । नैषेधिकीति द्वितीया उपाश्रयादहिनिःसरणानन्तरं यस्मिन् स्थाने प्रवेशनेन स्थितिः करणीया स्यात्, तत्रापरेषां निषेधान्नैषेधिकी करणीया, निषेधे भवा नैषेधिकी । तृतीया सामाचारी आपृच्छना, यतो हि श्वासोच्छ्वासादिकं त्यक्त्वाऽपरं सर्वं कार्यं गुरोः पृच्छां विना न कार्य, न करणीयं, तस्मादेषा आपृच्छना । चतुर्थी सामाचारी प्रतिपृच्छनानाम्नी भवति । करणीयकार्यस्य गुरोः पृच्छया अनन्तरं पुनरपि तस्य कार्यस्य करणप्रस्तावे गुरोः पृच्छना प्रतिपृच्छना ज्ञेया ॥२॥
पंचमी छंदणा नाम, इच्छाकारो य छट्टओ।
सत्तमो मिच्छाकारो उ, तहक्कारो य अट्ठमो ॥ ३ ॥ पञ्चमी छन्दनानाम्नी सामाचारी, अन्नादिकमानीयोदरमेव भरणीयं नास्ति, किन्तु यतीनां सर्वेषां निमन्त्रणारूपा छन्दनोच्यते, तस्यामेव छन्दनायामिच्छाकारशब्दः कर्तव्यः । इच्छाकारशब्दस्य कोऽर्थः ? इच्छया स्वाभिप्रायेण करणमिच्छाकार इति व्युत्पत्तिः । यदि भवतामिच्छा भवेत्तदा मम निमन्त्रणा सफला कर्तव्येति कथनम्, इयं षष्ठी सामाचारी । मिथ्याकार इति सप्तमी, मिथ्याकारशब्दस्यार्थं वदति-यदा कुत्रचित्स्खलना स्यात्, तदा तत्र साधुना मिथ्यादुष्कृतं मे इति वक्तव्यम् । मिथ्याकरणं मिथ्याकारः मिथ्यादुष्कृतदानमित्यर्थः, इयं सप्तमी, अष्टमी सामाचारी तथाकारस्तथा करणं गुरूपदेशं प्राप्य 'तहत्ति' तथास्तु इति कथनमियमष्टमीत्यर्थः ॥ ३ ॥