________________
८४]
[ उत्तराध्ययनसूत्रे-भाग-२ संसारसमुदे भ्रमिष्यसि, तस्मान्मिथ्यात्वं त्यज, जैनी दीक्षां गृहाणेति भावः । कथंभूते संसारसमुदे ? भयावर्ते सप्तभयजलभ्रमयुक्ते ॥ ४०॥
उवलेवो होइ भोगेसु, अभोगी नोवलिप्पई ।
भोगी भमइ संसारे, अभोगी विप्पमुच्चई ॥ ४१ ॥ हे विजयघोष ! भोगेषु भुज्यमानेषु सत्सूपलेपः-कर्मोपचयरूपो बन्धः स्यात् । अभोगी-भोगानामभोक्ता कर्मणा नोपलिप्यते । पुनर्भोगी-भोगानां भोक्ता संसारे भ्रमति, अभोगी-भोगानामभोक्ता कर्मलेपाद्विमुच्यते ॥ ४१ ॥
कर्मलेपे दृष्टान्तमाहउल्लो सक्को य दो छूढा, गोलया मट्टियामया ।
दो वि आवडिआ कुड्डे, जो उल्लो सोऽत्थ लग्गई ॥४२॥ उल्ल-आर्दश्च पुनः शुष्कः एतौ द्वौ मृत्तिकामयौ गोलको कुड्ये-भित्तौ 'उच्छूढो' आक्षिप्तौ, तत्रापतितौ भित्तावास्फालितौ सन्तौ, द्वयोर्मृत्तिकामयगोलकयोर्मध्ये य उल्लआर्दो मृद्गोलकः स अत्र कुड्ये लगति ॥ ४२ ॥
एवं लग्गति दुम्मेहा, जे नरा कामलालसा ।
विरत्ता उन लग्गंति, जहा सुक्के उगोलए ॥४३॥ एवममुना प्रकारेणाईमृत्तिकागोलकदृष्टान्तेन दुर्मेधसो दुष्टबुद्धयो ये नराः कामलालसा भोगेषु लम्पटास्ते लग्नन्ति-संसारे आसक्ता भवन्ति । तु पुनर्विरक्ताः कामभोगेभ्यो विमुखा नरास्ते न लग्नन्ति-संसारासक्ता न भवन्ति ।यथा शुष्को मृद्गोलको भित्तौ न लगति ॥४३॥
एवं सो विजयघोसो, जयघोसस्स अंतिए ।
अणगारस्स निक्खंतो, धम्मं सुच्चा अणुत्तरं ॥ ४४ ॥ एवममुना प्रकारेण स विजयघोषो ब्राह्मणो जयघोषस्यानगारस्यान्तिके-समीपे निष्क्रान्तो-दीक्षां प्राप्तः, किं कृत्वा ? अनुत्तरं धर्मं श्रुत्वा ॥ ४४ ॥
खवित्ता पुव्वकम्माइं, संजमेण तवेण य । जयघोसविजयघोसा, सिद्धि पत्ता अणुत्तरं ॥ ४५ ॥त्तिबेमि ॥
जयघोषविजयघोषावुभावप्यनुत्तरां-प्रधानां गति सिद्धि प्राप्तौ । किं कृत्वा ? संयमेन च पुनस्तपसा पूर्वकर्माणि क्षपयित्वा क्षयं नीत्वा, इत्यहं बवीमि, इति सुधर्मास्वामी जम्बूस्वामिनं प्राह ॥ ४५ ॥
इति यज्ञीयाख्यं पञ्चविंशतितममध्ययनम् ॥ २५ ॥
इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां पञ्चविंशतितममध्ययनं सम्पूर्णम् ॥ २५॥