________________
२५, यज्ञीयाख्यमध्ययनम्]
[८३ कृत्वा सर्वकर्मविनिर्मुक्तो भूत्वा स्नातको भवति, केवली भवति । प्राकृतत्वात्प्रथमास्थाने द्वितीया । तमेतादृशगुणयुक्तं स्नातकं वा वयं ब्राह्मणं ब्रूमः ॥ ३४ ॥
एवं गुणसमाउत्ता, जे भवंति दिउत्तमा ।
ते समत्था उ उद्धत्तुं, परं अप्पाणमेव य ॥ ३५ ॥ एवं गुणसमायुक्ता ये द्विजोत्तमा-ब्राह्मणश्रेष्ठा भवन्ति, ते ब्राह्मणोत्तमाः परमात्मानमप्युद्धत्तुं समर्था भवन्ति ॥ ३५ ॥
एवं तु संसए छिन्ने, विजयघोसो य माहणो।
समादाय तओ तं तु, जयघोसं महामुणि ॥३६॥ ततस्तदनन्तरं विजयघोषो ब्राह्मणो जयघोषं महामुनि वाचेदं वचनमुदाह-कथयतीति सम्बन्धः । किं कृत्वा ? तं मुनि जयघोषं समादाय-सम्यगुपलक्ष्य ज्ञात्वा, क्व सति ? एवं पूर्वोक्तप्रकारेण विजयघोषस्य संशये छिन्ने सति ॥ ३६ ॥
तुट्ठो य विजयघोसो, इणमुदाहु कयंजली ।
माहणत्तं जहाभूयं, सुट्ट मे उवदंसियं ॥ ३७ ॥ विजयघोषस्त्विदं वचनं जयघोषमुनये आह-कीदृशो विजयघोषः ? कृताञ्जलिः । हे मुने ! 'मे' मम ब्राह्मणत्वं यथाभूतं-यथास्वरूपं सुष्ठ-सम्यगुपदर्शितम् ॥ ३७ ॥
तुब्भे जइया जन्नाणं, तुब्भे वेयविऊ विऊ ।
जोइसंगविउ तुब्भे, तुब्भे धम्माण पारगा ॥३८॥ किं वचनमाह-हे महामुने ! 'तुब्भे' इति यूयं यज्ञानां यष्टारो, यूयं वेदविदः, वेदवित्सु विदो-ज्ञातारो, वेदविदां वरा यूयमेव, पुन!यमेव ज्योतिषाङ्गविदः, यूयमेव धर्माणां पारगाधर्माचारपारगाः ।। ३८ ॥
तुब्भे समत्था समुद्धत्तुं, परं अप्पाणमेव य ।
तमणुग्गहं करे अहं, भिक्खेणं भिक्खुउत्तमा ॥३९॥ __पुनर्हे महामुने ! यूयं परम्, पुनरात्मानं समुद्धर्तुं संसारान्निस्तारयितुं समर्थाः । तमि' ति तस्मात्कारणाद् भो भिक्षूत्तमाः-साधुश्रेष्ठाः ! भिक्षया भिक्षाग्रहणेनास्माकमनुग्रहं यूयं कुरुथ ॥ ३९ ॥
ण कज्जं मज्झ भिक्खेणं, खिप्पं निक्खमस दिया।
मा भमिहसि भयावट्टे, घोरे संसारसागरे ॥ ४०॥ तदा जयघोषमुनिराह-हे द्विज ! मम भिक्षया कार्यं नास्ति, त्वं क्षिप्रं-शीघ्रं निष्क्रमणस्व-दीक्षां गृहाण । द्विज ! घोरे-भीषणे संसारसागरे मा भ्रमसि । मिथ्यात्वेन त्वं