________________
८२]
[ उत्तराध्ययनसूत्रे-भाग-२ तदिष्टं पापकर्मणा पापकारणपशुबन्धाद्यनुष्ठानेन तं वेदानामध्येतारं यज्ञकर्तारं वा न त्रायते । कथंभूतं तं ? दुःशीलं दुराचारं, पापशास्त्राणां पठनेन पापकर्मकरणेन च दुष्टाचारम् । इह कर्माणि बलवन्ति वर्तन्ते, दुष्टकर्माणि बलेन पापकर्मकर्तारं नरकं नयन्ति । अतः कारणादेतस्माद्यागाद् ब्राह्मणः पात्रभूतो नास्ति । किन्त्वनन्तरोक्तगुणवानेव ब्राह्मण इति भावः ॥३०॥
नवि मुंडिएण समणो, न उँकारेण बंभयो ।
न मुणी रणवासेण, कुसचीरेण न तावसो ॥३१॥ हे विजयघोष ! मुण्डितेन-स्वकेशापनयनेन श्रमणो-निर्ग्रन्थो न स्यात्, उँकारेण उपलक्षणत्वाद् ‘उँ भूर्भुवः स्वरि' त्यादिना ब्राह्मणो न स्यात् । तथाऽरण्यवासेन मुनि!च्यते । कुशो-दर्भस्तन्मयं चीरमुपलक्षणत्वाद्वल्कलं - कुशचीरं, तेन कुशचीरेण कुशोपलक्षितवल्कलवस्त्रेण तापसो न भवेत् ॥ ३१ ॥
समयाए समणो होइ, बंभचेरेण बंभणो ।
नाणेण य मुणो होइ, तवेण होइ ताावसो ॥३२॥ 'समयाए' समत्वेन शत्रुमित्रयोरुपरि समानभावेन श्रमणो भवति, ब्रह्मचर्येण ब्राह्मणो भवति । ब्रह्म पूर्वोक्तमहिंसासत्यचौर्याभावामैथुननिर्लोभरूपम्, तस्य ब्रह्मणश्चरणमङ्गीकरणं ब्रह्मचर्य, तेन ब्राह्मण उच्यते, ब्रह्मचर्येण युक्तो ब्राह्मण इत्यर्थः । ज्ञानेन मुनिर्भवति, मन्यते जानाति हेयोपादेयविधी इति मुनिः, स च ज्ञानेनैव स्यात्, तथा तपसा द्वादशविधेन तापसो भवति ॥ ३२॥
कम्मुणा बंभणो होई,कम्मुणा होइखत्तिओ।
वइस्सो कम्मुणा होइ, सुद्दो होइ कम्मुणा ॥३३॥ कर्मणा - क्रियया ब्राह्मणो भवति,
क्षमा दानं दमो ध्यानं, सत्यं शौचं धृतिघृणा ।
ज्ञानविज्ञानमास्तिक्य-मेतद् ब्राह्मणलक्षणं ॥ १ ॥ अनया क्रियया लक्षणभूतया ब्राह्मण: स्यात् ।क्षत्रियः शरणागतत्राणलक्षणक्रियया क्षत्रिय उच्यते, न तु केवलं क्षत्रियकुले जातिसमुत्पन्ने सति, शस्त्रबन्धनत्वेनैव क्षत्रिय उच्यते । एवं वैश्योऽपि कर्मणा क्रिययैव स्यात्, कृषिपशुपाल्यादिक्रियया वैश्य उच्यते । कर्मणैव शूदो भवति, शोचनादिहेतुप्रेषणभारोद्वहनजलाद्याहरणचरणमईनादिक्रियया शूद उच्यते । अत्र ब्राह्मणलक्षणावसरेऽन्येषां वर्णत्रयाणां लक्षणविधानं व्याप्तिदर्शनार्थम् ॥ ३३ ॥
एए पाउकरे बुद्धे, जेहिं होइ सिणायओ। '
सव्वकम्मविणिमुक्कं, तं वयं बूम माहणं ॥३४॥ बुद्धो-ज्ञाततत्त्वः श्रीमहावीरः, एतानहिंसाद्यर्थान् प्रादुरकार्षीत्-प्रकटीचकार । यैर्गुणैः