________________
२५, यज्ञीयाख्यमध्ययनम्]
[८१ दिव्वमाणुस्सतेरिच्छं, जो न सेवइ मेहुणं ।
मणसा कायवक्केणं, तं वयं बूम माहणं ॥ २६ ॥ पुनर्यो दिव्यमानुष्यतिरश्चीनं मैथुनं मनसा कायेन वचसा च कृत्वा न सेवेत, वयं तं ब्राह्मणं 'ब्रूमः ॥२६॥
जहा पोमं जले जायं, नोवलिप्पइ वारिणा ।
एवं अलित्तं कामेहिं, तं वयं बूम माहणं ॥२७॥ __हे ब्राह्मण ! पुनस्तं वयं ब्राह्मणं बूमः । तं कीदृशं? एवममुना प्रकारेणानेन दृष्टान्तेन कामैरलिप्तम्, भोगैरसंलग्नम् । केन दृष्टान्तेन ? यथा पद्मं जले जातं, परं तत्पद्म वारिणा नोपलिप्यते, जलं त्यक्त्वोपरि तिष्ठति तथा भोगैरुत्पन्नोऽपि भोगैरलिप्तो यस्तिष्ठति स ब्राह्मणो ज्ञेयः ॥२७॥ मुलगुणमुक्त्वोत्तरगुणमाह
अलोलुयं मुहाजीवी, अणगारं अकिंचणं ।
असंसत्तं गिहत्थेसु, तं वयं बूम माहणं ॥ २८ ॥ पुनर्वयं तं ब्राह्मणं ब्रूमः । कीदृशं तं ? अलोलुपमाहारादिषु लाम्पट्यरहितम्, पुनः कीदृशं? मुधाजीविनम्, अज्ञातगृहेष्वाहारादिगृहीत्वाऽजीविकां कुर्वाणं, संयमजीवितव्यधारकमित्यर्थः । पुनः कीदृशं ? गृहस्थेष्वसंसक्तं-गृहस्थेषु प्रतिबन्धरहितम् ॥ २८ ॥
जहित्ता पुव्वसंजोगं, नाइसंगे य बंधवे । ।
जो न सज्जइ एएसु, तं वयं बूम माहणं ॥ २९ ॥ पुनस्तं वयं ब्राह्मणं ब्रूमः । तमिति कं ? यो ज्ञातौ स्वकीयगोत्रे, च पुनः सङ्गे स्वसुरादिसम्बन्धे, पुनर्बान्धवे.पूर्वसंयोगं मातापित्रादिस्नेहं त्यक्त्वा पुनरेतेषु पूर्वोक्तेषु न स्वजति, रागासक्तो न भवति, तं वयं ब्राह्मणं 'ब्रूमः ॥२९॥
पसुबंधा सव्ववेया, जटुं च पावकम्मुणा ।
न तं तायइ दुस्सीलं, कम्माणि बलवंतिह ॥३०॥ भो विजयघोष ! सर्ववेदाः पशुबन्धा वर्तन्ते, पशूनां बन्धो विनाशाय नियन्त्रणं यैर्हेतुभिस्ते पशुबन्धाः, केवलं वेदाः पशुहननहेतवो वर्तन्ते, न तु मोक्षहेतवः, हिंसायाः प्ररूपकत्वात् । यतो हि वेदवाक्यमिदं श्रूयतां भूतिकामो वायव्यां दिशि श्वेतं छागमालभेत' इत्यादिपशुबन्धे हेतुभूतं वेदवाक्यम्।च पुनः 'जटुं' इति इष्ट-यजनं यक्षः पापकर्मणोत्पद्यते, १ देवमानुषतिर्यक्षु, मैथुनं वर्जयेद्यदा । कामरागविरक्तश्च, ब्रह्म सम्पद्यते तदा ॥१॥ २ यदा सर्वं परित्यज्य, निसङ्गो निष्परिग्रहः । निश्चितश्च चरेद्धर्म, ब्रह्म सम्पद्यते तदा ॥१॥आरण्यके।