________________
८०]
[ उत्तराध्ययनसूत्रे-भाग-२ जायरूवं जहामटुं, निद्धत्तमलपावगं ।
रागदोषभयातीतं, तं वयं बूम माहणं ॥ २१ ॥ हे विजयघोष ! वयं तं ब्राह्मणं ब्रूमः । कीदृशं ? जातरूपं-स्वर्णमिवामृष्टं तेजोवृद्धये मनःशिलादिना परामृष्टं, कृतवर्णिकावर्धनं, अनेन बाह्यगुण उक्तः । यथाशब्द इवार्थे । पुनः कीदृशं तं ? निद्धत्तमलपावगं' नितरामतिशयेन ध्मातं मलं-किट्टं तदूपं पातकं यस्य स निर्मातमलपातकस्तम्, अनेन चान्तरो गुण उक्तः । पुनः कथंभूतं ? रागद्वेषभयातीतं, रागः प्रेमरूपः, द्वेषोऽप्रीतिरूपः ताभ्यामतीतो-दूरीभूतस्तं विप्रं वदामः ॥ २१ ॥
तवस्सियं किसं दंतं, अवचियमंससोणियं ।।
सव्वयं पत्तनिव्वाणं, त वयं बूम माहणं ॥२२॥ हे विजयघोष ! वयं तं ब्राह्मणं बूमः । तं कं ? तपस्विनमत एव कृशं दुर्बलम्, पुनः कीदृशं ? दान्तं जितेन्द्रियम्, पुनः कीदृशं ? अपचितमांसशोणितं शोषितमांसरुधिरम्, पुनः कीदृशं ? सुव्रतं-सम्यग्व्रतानां धर्तारम् । पुनः कीदृशं ? प्राप्तनिर्वाणं प्राप्तं कषायाग्निशमनेन निर्वाणं शीतीभावं येन स प्राप्तनिर्वाणस्तं ॥ २२ ॥
तसपाणे वियाणित्ता, संगहेण य थावरे ।
जो न हिंसइ तिविहेणं, तं वयं बूम माहणं ॥२३॥ हे ब्राह्मण ! तं वयं ब्राह्मणं ब्रूमः । तमिति कं ? यस्त्रसान्, प्राणान् पुनः स्थावरान् सङग्रहेण-समासेन सङक्षेपेण विज्ञाय त्रिविधेन मनोवाक्कायेन करणकारणानुमतिभेदेन नवविधेन न हन्ति, तं ब्राह्मणं वच्म इति भावः ॥ २३ ॥
कोहा वा जइ वा हासा, लोहा वाजइ वा भया।
मुसं न वयई जो उ, तं वयं बूम माहणं ॥ २४ ॥ हे विजयघोष ! यः क्रोधात्, यदि वाऽथवा हासात्, वाऽथवा लोभात्, अथवा भयात् मृषामसत्यवाणी न वदति, तं वयं ब्राह्मणं ब्रूमः ॥२४॥
चित्तमंतमचित्तं वा, अप्पं वा यदिवा बहुं ।
न गिण्हइ अदत्तं जो, तं वयं बूम माहणं ॥२५॥ हेब्राह्मण! यश्चित्तमन्तं-सचित्तं, वाऽथवाऽचित्तं-प्रासुकम्,अल्पकं-स्तोकं, यदि वाऽथवा बहुं-प्रचुरं, अदत्तं-दायकेनाऽनर्पितं स्वयमेव न गृह्णाति, तं वयं ब्राह्मणं ब्रूमः ॥ २५ ॥ १ यदा न कुरुते पापं, सर्वभूतेषु दारुणं । कर्मणा मनसा वाचा, ब्रह्म सम्पद्यते तदा ॥१॥आरण्यके ॥ २ यदा सर्वानृतं त्यक्तं, मिथ्या भाषा विवर्जिता । अनवधं च भाषेत, ब्रह्म सम्पद्यते तदा ॥१॥ आरण्यके॥ ३ परद्रव्यं यदा दृष्ट्वा आकुले ह्यथवा रहे । धर्मकामो न गलाति, ब्रह्म सम्पद्यते तदा ॥१॥आरण्यके।