________________
[ ७९
२५,
यज्ञीयाख्यमध्ययनम् ]
स्यात्तथा मनोहारिणस्त्रिभुवनवर्तिनो भव्या वन्दमाना:- स्तवनां कुर्वन्तो नमस्कुर्वन्ति विनये प्रवर्तन्ते इति भावः ॥ १७ ॥
अजाणगा जन्नवाई, विज्जामाहणसंपया ।
मूढा सज्झायतवसा, भासच्छन्ना इवग्गिणो ॥ १८ ॥
हे विजयघोष ! विद्याब्राह्मणसम्पदामजानानाः, पुनर्यज्ञवादिनः, ते च त्वया पात्रत्वेन मन्यन्ते । विद्या आरण्यकब्रह्माण्डपुराणात्मिकाः, ता एव ब्राह्मणसम्पदो विद्याब्राह्मणसम्पदस्तासामज्ञाः सन्तो यज्ञवादिनो वर्तन्ते । चेद् 'बृहदारण्यकाद्युक्तं यज्ञमेते जानन्ते, तदा कथमेतादृशं यज्ञं कुर्युः ? तस्माद् वृथैव वयं याज्ञिका इत्यभिमानं पुनः कुर्वन्ति, कथंभूताः ? स्वाध्यायतपसा वेदाध्ययनोपवासादिना मूढाः, बहिः संवृतिमन्त आच्छादिततत्वज्ञानाः । एते के इव ? भस्मच्छन्ना अग्नय इव रक्षाच्छादिता वह्नय इव । इत्यनेन बाह्ये शीतत्वं प्राप्ताः परं कषायाग्निना मध्ये सन्तप्ता एवेति भावः ॥ १८ ॥
-
,
पुनः साधुर्वदति
भत्त, अग्गीव महिओ जहा ।
सया कुसलसंदिट्ठे, तं वयं बूम माहणं ॥ १९ ॥
हे विजयघोष ! वयं तं ब्राह्मणं ब्रूमः, तं कं ? यो मुनिभिर्ब्राह्मण उक्तः, यत्कैश्चिदज्ञैरब्राह्मणोऽपि ब्राह्मणोऽयमित्युक्तस्तं ब्राह्मणं न ब्रूम इति भावः । कथंभूतः सः ? लोके महित:- पूजितः सन् दीप्यते, क इव ? अग्निरिव यथाग्निः पूजितो घृतादिसिक्तो दीप्यते । कीदृशं तं ब्राह्मणं ? सदा कुशलसंदिष्टं, सदा कुशलैस्तत्त्वाभिज्ञेः संदिष्टं कथितम् ॥१९॥ अथ कुशलसन्दिष्टस्वरूपं ब्राह्मणमाह
जो न सज्जइ आगंतुं, पव्वयंतो न सोयई ।
रमइ अज्जवयणंमि, तं वयं बूम माहणं ॥ २० ॥
हे विजयघोष ! तं वयं ब्राह्मणं ब्रूमः । तमिति कं ? य आगन्तुमिति बहुभ्यो दिनेभ्यः प्राप्तं स्वजनादिकं वल्लभं जनं न स्वजति नालिङ्गति । अथवा आगन्तुमिति स्वजनादिस्थानमागत्य स्वजनादिकं न स्वजति । नाभिष्वङ्गं करोति । पुनर्यः प्रव्रजन् स्थानादन्यत्स्थानंस्थानान्तरं गच्छन्, अर्थाद्विच्छुटन् न शोचते, न शोकं कुरुते । पुनर्य आर्यवचने तीर्थङ्कर--वाक्ये रमते तं वयं ब्राह्मणं वदामः ॥ २० ॥
१ बृहदारण्यकपुराणे तु सत्यादिदशप्रकारधर्ममयो भावयज्ञः प्रोक्तोऽस्ति, पुनः सकलपुराणमुख्ये ब्रह्माण्डपुराणेऽप्युक्तम्, इह हि ईक्ष्वाकुकुलवंशोद्भवेन नाभिसुतेन मरुदेव्या नन्दनेन महादेवेन ऋषभेण दशप्रकारो धर्मः स्वयमेव चीर्णः, केवलज्ञानलम्भाच्च निर्ग्रन्थादि महर्षीणां प्रणीतस्त्रेतायामादावित्यादि । प्रणीतस्त्रेतायामादावित्यादि ।