________________
७८]
[ उत्तराध्ययनसूत्रे-भाग-२ हे महामुने ! त्वमेव वेदानां मुखं ब्रूहि, पुनर्यद् यज्ञानां मुखं तन्मे ब्रूहि, पुनर्नक्षत्राणां मुखं ब्रूहि, पुनर्धर्माणां यन्मुखं तन्मे ब्रूहि, ॥१४॥
जे समत्था समुद्धत्तुं, परं अप्पाणमेव य ।
एयं मे संसयं सव्वं, साहू कहसु पुच्छिओ ॥१५॥ पुनर्ये पुरुषाः परं च पुनरात्मानमपि संसारादुद्धर्तुं समर्थाः सन्ति, एतद् 'मे' मम संशयविषयं वेदमुखादिकमस्ति, हे साधो ! त्वं मया पृष्टः सन् सर्वं कथयस्व ॥ १५ ॥ इत्युक्ते मुनिराह
अग्गिहोत्तमुहा वेया, जनट्ठी वेयसां मुहं ।
नक्खत्ताण मुहं चंदो, धम्माणं कासवो मुहं ॥१६॥ हे विजयघोष ! वेदा अग्निहोत्रमुखाः, अग्निहोत्रं मुखं येषां तेऽग्निहोत्रमुखाः, वेदानां मुखमग्निहोत्रम्, अग्निहोत्रं ह्यग्निकारिका, सा चेयं ।
"कर्मेन्धनं समाश्रित्य, दृढा सद्भावनाहुतिः ।
धर्मध्यानाग्निना कार्या, दीक्षितेनाग्निकारिका ।। १ ।। इत्यादियज्ञविधिविधायिका कारिका गृह्यते । वेदानां यज्ञानामेषैव कारिका मुखं प्रधानम्, अस्याः कारिकाया अर्थः ।
कर्माणीन्धानानि कृत्वा उत्तमभावना आहुतिविधेया, धर्मध्यानाग्नौ दीक्षितेनेयमग्निकारिका विधेया । पुनर्हे ब्राह्मण विजयघोष ! यज्ञार्थी पुरुषो वेदसा-यज्ञानां मुखं वर्तते । यज्ञो दशप्रकारधर्म:
"सत्यं १ तपश्च २ सन्तोषः ३, क्षमा ४ चारित्र ५ मार्जवम् ६। श्रद्धा ७ धृति ८ रहिंसा ९ च, संवरच १० तथापरः ॥ १॥ [ ] इतिदशप्रकारः । स चात्र प्रस्तावाद्भावयज्ञः, तं यज्ञमर्थयत्यभिलषतीति यज्ञार्थी, स एव यज्ञानां मुखं वर्तते । नक्षत्राणामष्टाविंशतीनां मुखं चन्द्रो वर्तते । धर्माणां श्रुतधर्माणां चारित्रधर्माणां काश्यप आदीश्वरो मुखं वर्तते, धर्माः सर्वेऽपि तेनैव प्रकाशिता इत्यर्थः ॥९६ ॥
जहा चंदं गहाईया, चिटुंते पंजलिउडा ।
वंदमाणा 'नमंसंति, उत्तमं महहारिणो ॥ १७ ॥ यथा ग्रहादिका अष्टाशीतिग्रहाः, नक्षत्राण्यष्टाविंशतिप्रमितानि, एवं सर्वे ज्योतिष्का देवाश्चन्द्रं प्राञ्जलिपुटा-बद्धाञ्जलयस्तिष्ठन्ति-सेवन्ते, एवं श्रीऋषभदेवमुत्तमं प्रधानं यथा१ नमसंता-अन्यसंस्करणे, तत्र तस्य व्याख्या-'नमस्कुर्वन्तः' इति ॥