________________
२५, यज्ञीयाख्यमध्ययनम्]
[७७ नऽन्नटुं पाणहेउं वा, नवि निव्वाहणाय वा ।
तेसिं विमोक्खणट्ठाए, इमं वयणमब्बवी ॥१०॥ स महामुनिस्तेषां विजयघोषादिब्राह्मणानां विमोक्षणार्थ-कर्मबन्धनान्मुक्तिकरणार्थमिदं वचनमब्रवीत्, परमन्नपानलाभार्थं नाब्रवीत् । एवं ज्ञात्वा नाब्रवीद्येनाहमेभ्य उपदेशं ददामि, एते च प्रसन्नीभूय मह्यं सम्यगन्नपानं ददतीति बुद्धया नाब्रवीत्, किन्तु तेषां संसारनिस्तारार्थमवदत् । वाऽथवा निर्वाहणायापि न, वस्त्रपात्रादिकानां निर्वाह एभ्यो मम भविष्यतीति नाब्रवीदिति भावः ॥१०॥ किं ब्रवीदित्याह -
'ण विजाणसि वेयमुहं, णवि जन्नाण जं मुहं ।
नक्खत्ताण मुहं जं च, जं च धम्माण वा मुहं ॥११॥ भो ब्राह्मण विजयघोष ! त्वं वेदमुखं न विजानासि, पुनर्यद् यज्ञानां मुखं वर्तते तदपि त्वं न जानासि । पुनर्यन्नक्षत्राणां मुखं तदपि त्वं न जानासि । पुनर्यद्धर्माणां मुखं वर्तते तदपि त्वं न जानासि ॥११॥ पुनः साधुर्विजयघोषं ब्राह्मणं पृच्छति
जे समत्था समुद्धत्तुं, परं अप्पाणमेव य ।
ण ते तुमं वियाणासि, अह जाणासि तो भण ॥१२॥ हे विजयघोष ! ये परं च पुनरात्मानमेव समुद्धर्तु-संसारानिस्तारयितुं समर्थास्तान् स्वपरनिस्तारकांस्त्वं न जानासि, अथ चेत्त्वं जानासि तदा भण - कथय ॥ १२ ॥
तस्सऽक्खेवप्रमोक्खंच,अवयंतो तहिदिओ।
सपरिसो पंजलिउडो, पुच्छई तं महामुणिं ॥१३॥ 'तर्हि' इति तत्र यज्ञे द्विजो विजयघोषः प्राञ्जलिपुटो-बद्धाञ्जलिः सन् तं महामुनि पृच्छति, कीदृशो द्विजः ? सपरिषद्बहुभिर्मनुष्यैः सहितः, पुनः स द्विजः कीदृशः सन् ? तस्य साधोराक्षेपं - प्रश्नस्तस्य प्रमोक्ष-प्रतिवचनमुत्तरम्, 'अवयंतो' इति दातुमशक्नुवन्, प्रश्नस्योत्तरं दातुमसमर्थ सन्, दातुमित्यध्याहारः ॥ १३ ॥
वेयाणं च मुहं बूहि, बूहि जनाण जं मुहं ।
नक्खत्ताण मुहं बूहि, बूहि धम्माण जं मुहं ॥ १४ ॥ १ नवि जाणासि-अन्यसंस्करणे, तत्र वृत्तिः-'नवि'त्ति नैव जानासि । बृहत्यां -पं. ५२४A ।