________________
७६]
[उत्तराध्ययनसूत्रे-भाग-२ अह से तत्थ अणगारे, मासक्खमणपारणे । विजयघोसस्स जन्नंमि, 'भिक्खस्सट्ठा उवट्ठिए ॥५॥ अथानन्तरं तस्य विजयघोषस्य यज्ञे स पूर्वोक्तो जयघोषोऽनगारो मासक्षमणस्य पारणे भिक्षाया अर्थ-भिक्षायै उपस्थितः ॥५॥
समुवट्टियं तहिं संतं, जायगो पडिसेहई । न हुदाहामि ते भिक्खं, भिक्खू जायाहि अण्णओ॥६॥ तदा याजको-यजमानो विजयघोषो ब्राह्मणस्तत्र भिक्षार्थं समुपस्थितं सन्तं तं साधु प्रतिषेधयति-निवारयति । कथं निवारयतीत्याह-हे भिक्षो ! त्वमन्यतोऽन्यत्र याहि, 'ते' तुभ्यं भिक्षां न ददामि ॥६॥
जे य वेयविउ विप्पा, जण्णा य जे दिया । जोइसंगविऊ जे य, जे य धम्माण पारगा ॥ ७ ॥ जे समत्था समुद्धत्तुं, परं अप्पाणमेव य । तेसि अन्नमिणं देयं, भो भिक्खू सव्वकामियं ॥८॥युग्मम् ॥
विजयघोषो वदति-हे भिक्षो ! अस्मिन् यज्ञे इदं प्रत्यक्षं दृश्यमाणमन्नं सर्वकामिकं षड्रससिद्धं तेषां पात्राणां देयं वर्तते, तेभ्यो देयमस्ति, न तु तुभ्यं देयं वर्तते । तेषां केषां ? ये आत्मानं स्वकीयमात्मानं, च पुनः परंपरस्यात्मानं समुद्धर्तुं समर्थाः, ये संसारसमुद्रादात्मानं तारयितुं समर्थाः, परमपि तारयितुं समर्थास्तेषां प्रदेयमस्तीति भावः । पुनः केषां प्रदेयमन्नं वर्तते ? ये विप्रा वेदविदो वेदज्ञास्तेषां, पुनर्ये यज्ञार्थाः, यज्ञ एवार्थः-प्रयोजनं येषां ते यज्ञार्थास्तेषाम्, पुनर्ये जितेन्द्रिया-इन्द्रियाणां जेतारस्तेषां, पुनर्ये ज्योतिषामङ्गविदः, ज्योतिःशास्त्रस्याङ्गवेत्तारः, यद्यपि ज्योतिःशास्त्रं वेदस्याङ्गमेवास्ति, वेदविद इत्युक्ते आगतम्, तथाप्यत्र ज्योतिःशास्त्रस्य पृथगुपादानं प्राधान्यख्यापनार्थम् । तस्मादेतद्गुणविशिष्टा ये ब्राह्मणास्तेषां देयमस्ति । पुनर्ये धर्मशास्त्राणां पारगास्तेषां देयमत्रान्नं वर्तते इत्यर्थः ॥७-८॥
सो तत्थ एवं पडिसिद्धो, जायगेण महामुणी।
नवि रुट्ठो नवि तुट्ठो, उत्तमट्ठगवेसओ ॥ ९ ॥ स महामुनिर्जयघोषस्तत्र यज्ञे एवममुना प्रकारेण विजयघोषेण याजकेन-यज्ञकारण प्रतिषिद्धः सन्-निवारितः सन् नापि रुष्टो नापि तुष्टः समभावयुक्तोऽभूत् । कीदृशः स महामुनिः ? उत्तमार्थगवेषको-मोक्षाभिलाषी ॥९॥ १ भिक्खमदा-अन्यसंस्करणे॥