________________
॥। २५ यज्ञीयाख्यमध्ययनम् ॥
पूर्वस्मिन्नध्ययने प्रवचनमातर उक्ताः, तास्तु ब्रह्मगुणयुक्तस्य स्युः, तस्माद्ब्रह्मगुणज्ञानाय यज्ञीयाध्ययनं कथ्यते
माहणकुलसंभूओ, आसि विप्पो महाजसो ।
जायाई जमजणंमि, जयघोसि त्ति नामओ ॥ १॥
वाराणस्यां द्विजौ यमलौ भ्रातरौ जयघोष - विजयघोषावभूताम् । तयोरेको जयघोषनामा गङ्गायां स्नातुं गतः । क्रूरसर्पमण्डुकग्रासं दृष्ट्वा प्रव्रजितः, तद्वार्तामाह
'माहणकुलम्मित्ति' ब्राह्मणकुले सम्भूतो विप्रकुले समुत्पन्नो जयघोष इति नामतो विप्र आसीत् । अत्र हि यद् ब्राह्मणकुलसम्भूतो विप्र आसीदित्युक्तम्, तद् ब्राह्मणजनकादुत्पन्नोऽपि जननीजातिहीनत्वेऽब्राह्मणः स्यात् अतो विप्र इत्युक्तम् । कीदृशो जयघोष: ? 'जमजन्नंमि' यमयज्ञे यायाजी, यायजीत्येवंशीलो यायाजी, यमा अहिंसासत्यास्तेयब्रह्म
निर्लोभाः पञ्च ते एव यज्ञो यमयज्ञस्तस्मिन् यमयज्ञेऽतिशयेन यज्ञकरणशीलः, अर्थात् पञ्चमहाव्रतरूपे यज्ञे याज्ञिको जातो यतिर्जात इत्यर्थः ॥ १ ॥
इंदियग्गामनिग्गाही, मग्गगामी महामुनी ।
गामाणुगामं रीयंतो, पत्तो वाणारसीं पुरीं ॥ २ ॥
स महामुनिरेकाकी साधुग्रमानुग्रामं 'रीयंतो' इति विचरन् वाराणसीं पुरीं प्राप्तः । कीदृशः स महामुनिः ? इन्द्रियग्रामनिग्राही, इन्द्रियाणां ग्रामं समूहमिन्द्रियपञ्चकं निगृह्णाति मनोजयेन वशीकरोतीतीन्द्रियग्रामनिग्राही, पुनः कीदृशः सः ? मार्गगामी, मार्ग मोक्षं गच्छति स्वयमन्यांश्च गमयतीति मार्गगामी ॥ २ ॥
वाणारसीए बहिया, उज्जाणंमि मणोरमे ।
फासुए सिज्जसंथारे, तत्थ वासमुवागए ॥ ३ ॥
साधुर्वाणास्य बाह्ये मनोरमे-मनोहरे उद्याने प्रासुके- जीवरहिते शय्यासंस्तारकेदर्भतृणादिरचिते शयनोपवेशनस्थितौ तत्र 'वासं' इति वसतिं कर्तुमुपागतः ॥ ३ ॥ अह तेणेव कालेणं, पुरीए तत्थ माहणे । विजयघोसि त्ति नामेणं, जण्णं जयइ वेयवी ॥ ४ ॥
अथानन्तरं तस्मिन्नेव काले यस्मिन् काले साधुर्वने समागतस्तस्मिन्नेव काले तस्यां वाराणस्यां पुर्यां विजयघोष इति नामा ब्राह्मणो यज्ञं यजति, यज्ञं करोति, कीदृशो विजयघोषः ? वेदविद्वेदज्ञः ॥ ४ ॥
૧ વારંવાર યજ્ઞ કરવાના સ્વભાવવાળો.