________________
२६, सामाचार्याख्यमध्ययनम् ]
[ ८७
कार्यमहं करोमि । तथा सारणे मम पात्रलेपनादि इच्छाकारेण यूयं कुरुतेति वक्तव्यमिति भावः । मिथ्याकार आत्मनिन्दायां, मयाऽभव्यं कृतमेतादृशमात्मनो निन्दावाक्यं मिथ्यादुष्कृतदानं मिथ्याकारकथनमुच्यते । गुरोः पार्श्वे वाक्यं श्रुत्वा गुरुं प्रतीदं कथनं, यद्भवद्भिरुक्तं तत्तथैव तथास्त्विति करणं तथाकारः, प्रतिश्रुते-गुरुवाक्याङ्गीकारे तथाकारस्तथास्तुकरणमिति भावः ॥ ६ ॥
अब्भुट्ठाणं गुरुपूया, 'अत्थणे उवसंपया ।
एवं दुपंचसंजुत्ता, सामायारी पवेइया ॥ ७ ॥
गुरूणामाचार्यादीनां पूजायां भयं विनैवातिशयेनाहारपानीयाद्यानीय वैयावृत्त्यविनयसम्पादनं तदभ्युत्थानमुच्यते । 'अत्थणे' इत्यर्थने ज्ञानाद्यर्थं परस्याचार्यस्य पार्श्वेऽवस्थाय ज्ञानादिगुणार्जनमुपसम्पदुच्यते । तस्याचार्यस्य समीपेऽवस्थानाय स्वामिन् ! इयन्तं कालं भवतां समीपे मया स्थातव्यं गच्छान्तरे आचार्यान्तरे ज्ञानाद्यर्थमिति विज्ञप्तिपूर्वकं ज्ञानाद्यभ्यसनरूपोपसम्पत्सामाचारीति भावः । एवममुना प्रकारेण द्विगुणाः पञ्च, अर्थाद्दशसंयुक्ताभेदसहिताः सामाचार्यः प्रकर्षेण वेदिताः प्रवेदितास्तीर्थङ्करगणधरैः कथिताः ॥ ७ ॥ अथ पूर्वमौधिक सामाचारीमाह
पुव्विल्लंमि चउब्भागे, आइच्चमि समुट्ठिए ।
भंडयं पडिलेहित्ता, वंदित्ता य तओ गुरुं ॥ ८ ॥
पुच्छिज्जा पंजलिउडो, किं कायव्वं मए इह ।
इच्छं निओइउं भंते, वेयावच्चे व सिज्झाए ॥ ९ ॥ युग्मम् ॥
पूर्वस्मिंश्चतुर्थभागे, यदा दिनस्य चत्वारो भागा भवन्ति, प्रहरप्रहरप्रमिता भवन्ति, तदा प्रथमो भागः प्रथमप्रहरात्मकः, तत्र प्रथमप्रहरस्य चतुर्थे भागे घटिकाद्वयरूपे, अष्टघटिकात्मकः प्रहरः, तस्य चतुर्थो भागो घटिकाद्वयात्मकस्तस्मिन् आदित्ये समुत्थिते सति घटिकाद्वयस्य सूर्ये सति, अथवा पूर्वस्मिन्निति प्रथमे, स्वबुद्ध्या विभागीकृते पूर्वदिक्सम्बन्धिनि आकाशस्य चतुर्थे भागे, यदाऽऽकाशस्य दिनमध्ये चत्वारो भागा बुद्धया कल्प्यन्ते, तन्मध्ये प्रथमे आकाशस्य भागे सूर्ये आगते सति, अर्थात्प्रथमे प्रहरे, यदाऽऽकाशे प्रहरप्रमित- सूर्यः समारूढः स्यात्तदेति भावः । अत्र किञ्चिदूनचतुर्भागे, किञ्चिदूने प्रहरेऽपि पादोन- पौरुष्यामयमर्थो गृह्यते । यथा दशारहितोऽपि पटः पट एवोच्यते, तथात्र पादोनपौरुष्यपि पौरुष्येव गृह्यते । तस्मात्पादोनपौरुष्यां भाण्डकं - पात्राद्युपकरणं प्रतिलेख्य चक्षुषा निरीक्ष्य प्रमार्ज्य, ततोऽनन्तरं गुरुं वन्दित्वा शिष्यः प्राञ्जलिपुटः पृच्छेत्-हे गुरो ! इहास्मिन् समये मया किं कर्तव्यं ? हे भन्ते ! हे पूज्य ! अहं वैयावृत्त्ये वाऽथवा स्वाध्याये नियोजयितुं - युष्माभिः प्रेरयितुं स्वात्मानमिच्छामि - वाञ्छामि ॥ ९ ॥
१ अच्छणे- अन्यसंस्करणे । तत्र व्याख्या- ' अच्छणे' त्ति आसने प्रकमादाचार्यान्तरादिसन्निधौ अवस्थाने, बृहद्वृत्त्यां-प० ५३५ ॥