________________
८८]
[ उत्तराध्ययनसूत्रे-भाग-२ वेयावच्चे निउत्तेणं, कायव्वमगिलायओ ।
सज्झाए वा निऊत्तेणं, सव्वदुक्खविमोक्खणे ॥१०॥ गुरुणा वैयावृत्त्ये नियुक्तेन-प्रेरितेन शिष्येणाऽग्लान्यैव वैयावृत्त्यं कर्तव्यम् । वाऽथवा स्वाध्याये-शास्त्रपठने नियुक्तेन शिष्येण सर्वदुःखविमोक्षणः स्वाध्यायोऽग्लान्यैव कर्तव्य इति भावः ॥१०॥
अथौत्सर्गिकदिवसस्य कर्तव्यमाहदिवसस्स चउरो भागे, भिक्खू कुज्जा वियक्खणो । तओ उत्तरगुणे कुज्जा, दिणभागेसु चउसुवि ॥ ११ ॥ विचक्षणः क्रियासु कुशलो भिक्षुर्दिवसस्य चतुरो भागान् कुर्यात् । ततश्चतुर्भाग करणानन्तरं चतुर्ध्वपि दिनभागेषूत्तरगुणान् स्वाध्यायादीन् कुर्यात् ॥ ११ ॥
पढमं पोरिसिं सज्झायं, बीयं झाणं झियायई । तइयाए भिक्खायरियं, पुणो चउत्थीए सज्झायं ॥१२॥ प्रथमां पौरुषीमाश्रित्य स्वाध्यायं वाचनादिकं कुर्यात्, द्वितीयां पौरुषीमाश्रित्य ध्यानंमनस्यर्थचिन्तनारूपं ध्यानं ध्येयम् कुर्यात्, इह च प्रतिलेखनाकालोऽल्पत्वान्न विवक्षितः, उभयत्र 'कालाध्वनोरत्यन्तसंयोगे'[ पाणिनीय०२-२-५] इत्यनेन द्वितीया, तृतीयातीयायां पौरुष्यां भिक्षाचर्यामाहाराद्यर्थं गृहस्थगृहे गमनं कुर्यात् । चतुर्थ्यां पौरुष्यां पुनः स्वाध्यायं प्रतिलेखनस्थण्डिलप्रत्युपेक्षादिकं कुर्यात् । यस्मिन् काले यत्साधोः कर्तुं योग्यं कार्य, तत्तदेव कर्त्तव्यमिति भावः । अवसरे हि सर्वं कार्यं कृतं फलदं स्यादित्यर्थः ॥ १२ ॥ अथ प्रथमपौरुषीपरिज्ञानार्थं गाथामाह
आसाढे मासे दुप्पया, पोसे मासे चउप्पया । चित्तासोएसु मासेसु, तिप्पया हवइ पोरिसी ॥ १३ ॥ अंगुलं सत्तरत्तेणं, पक्खेण य दुअंगुलं ।
वड्डए हायए वावि, मासेणं चउरंगुलं ॥१४ ॥ युग्मम् ॥ अयमाम्नायः सूत्रेऽनुक्तोऽपि गुरुकुलवासाद् ज्ञेयः । दक्षिणं कर्णं सूर्यसन्मुखं विधाय जानुमध्ये तर्जन्यङ्गलीछायामूर्वीभूय पादैर्गणयेत् । आषाढे-आषाढ्यां पूर्णिमायां द्विपद्या छायया पौरुषी स्यात् यदा जानुच्छाया द्वाभ्यां पादाभ्यां प्रमिता स्यात्तदा प्रहरप्रमाणं दिनं ज्ञेयमिति भावः । एवं पौषीपूर्णिमायां चतुष्पद्या पौरुषी स्यात्, चतुर्भिः पादैः प्रहरं दिनं १ सिद्धहेमे-काला-ऽध्वनोाप्तौ ।२।२।४२॥