________________
२६, सामाचार्याख्यमध्ययनम् ]
[८९ स्यात्, चैत्रीपूर्णीमायामश्विन्यां पूर्णिमायां त्रिपद्या पौरुषी स्यात्, त्रिभिः पादैः प्रहरं दिनं ज्ञेयमिति भावः । शेषमासदिनेषु पौरुष्यानयनविधिमाह-सप्तरात्रेण-सप्ताहोरात्रेण सार्धेनालं, एवं पक्षेण द्वयङ्गुलं दक्षिणायने कर्कसिंहकन्यातुलावृश्चिकधने सङ्क्रान्तिषट्के वर्धते । एवं मकरादिषट्के उत्तरायणे सार्धं सप्ताहोरात्रेणाङ्गुलं पक्षेण द्वयङ्गुलं हीयते, मासेन चतुरङ्गुलम् । एवं दक्षिणायने वर्धते उत्तरायणे च हीयते, श्रावणादिमासषट्के वर्धते, माघादिमासषट्के हीयते । पुनर्यदा केषुचिन्मासेषु चतुर्दशदिनैः पक्षः स्यात्, तदा सप्तरात्रेणाप्यङ्गुलवृद्धिहान्या न कश्चिदपि दोषः ॥ १४ ॥ अथ चतुर्दशदिनैः पक्षसम्भवमाह
आसाढबहुलपक्खे, भद्दवए कत्तिए य पोसे य।
फाग्गुणवइसाहेसु य, नायव्वा ओमरत्ताओ ॥१५॥ एतेषु मासेष्ववमरात्रयो ज्ञेयाः । आषाढे बहुलपक्षे-कृष्णपक्षे, बहुलपक्षशब्दस्य भाद्रपदादिष्वपि सम्बन्धः कर्तव्यः । भाद्रपदे, कार्तिके, पौषे, फाल्गुने, वैशाखे कृष्णपक्षेऽवमरात्रयो भवन्ति ।अवमा-ऊना एकनाहोरात्रेण हीना इत्यवमरात्रयः, रात्रिपदेनाहोरात्रग्रहणं कर्तव्यम् । एवमेतेषु मासेषु दिनचतुर्दशकः कृष्णपक्षः स्यादिति भावः ॥१५॥ अथ पादोनपौरुषीपरिज्ञानोपायमाह
जेट्ठामूले आसाढ- सावणे, छहिं अंगुलेहिं पडिलेहा ।
अट्ठहिं बीयतइयंमि, तईए दस अट्टहिं चऊत्थे ॥१६॥ ज्येष्ठामूले इति ज्येष्ठानक्षत्रमथ च मूलनक्षत्रं ज्येष्ठमासस्य पूर्णिमायां स्यात्तेन ज्येष्ठामूले ज्येष्ठमासे, तथाऽषाढ़े श्रावणे च मासे प्रत्यहं प्रागुक्तपौरुषीमाने षड्भिरङ्गुलैरधिकैः प्रतिलेखा-पादोनपौरुषीप्रतिलेखनाकालः स्यात् । ज्येष्ठादारभ्य प्रथमे मासत्रिके एवं ज्ञेयम् । द्वितीयं त्रिके भाद्रपदाश्विनकार्तिकलक्षणे मासत्रिके पूर्वोक्तपौरुषीमानेऽष्टभिरङ्गुलैरधिकैः प्रक्षिप्तः पादोनपौरुषीकालः स्यात् । एवं तृतीये त्रिके मार्गशीर्षपौषमाघलक्षणे पौरुषीमाने दशभिरगुलैरधिकैः प्रक्षिप्तैः पादोनपौरुषीकालो ज्ञेयः । तथा चतुर्थे त्रिके फाल्गुनचैत्रवैशाखलक्षणे प्रागुक्तपौरुषीमानेऽष्टभिरङ्गुलैरधिकैः प्रक्षिप्तैः पादोनपौरुषीकालो भवेत् ॥ १६ ॥
दिनकृत्यमुक्त्वा रात्रिकृत्यमाहरत्तिं पि चउरो भाए, भिक्खू कुज्जा वियक्खणो । तओ उत्तरगुणे कुज्जा, राईभागेसु चउसुवि ॥ १७ ॥