________________
९०]
[उत्तराध्ययनसूत्रे-भाग-२ पढमे पोरिसि सज्झायं, बिए झाणं झियायई । तईयाए निद्दमोक्खं तु, चउत्थी भुज्जोवि सज्झायं ॥ १८ ॥
रात्रेरपि चतुरो भागान् विचक्षणो भिक्षुः क्रियावान् मुनिः कुर्यात्, ततश्चतुर्भागकरणादनन्तरं चतुर्ध्वपि रात्रिभागेषूत्तरगुणान् कुर्यात् ॥ १७ ॥.. --
प्रथमपौरुष्यां स्वाध्यायं कुर्यात्, द्वितीयायामधीतस्य सूत्रार्थस्य स्मरणं-मनसा चिन्तनं कुर्यात् । तृतीयायां पौरुष्यां निद्राया मोक्षो विधेयः, प्रथमपौरुष्यां द्वितीयपौरुष्यां च (निरुद्धया) निदाया मोक्षो निद्रामोक्षस्तं निद्रामोक्षं-स्वापं कुर्यात् । यद्यपि मुनेः सर्वथा प्रमादत्याग एवोक्तोऽस्ति, तथाप्ययं निद्रायाः समय उक्तः । अत्र केचिन्निदाया मोक्षंजागरणं निद्रानिषेधं कुर्यादित्यपि वदन्ति, तच्चिन्त्यम् । निषेधस्य प्राप्तिपूर्वकत्वात्, पूर्व निद्रायाः करणसमयस्तु नोक्तः। प्रथमप्रहरे स्वाध्यायः, द्वितीयप्रहरे ध्यानं, पूर्वमपि निद्राया निषेध एवोक्तः, तृतीयप्रहरेऽन्यस्य कस्यापि कार्यस्याऽकथनत्वात्, तस्मात् तृतीयपौरुष्यां शयनसमय एव लक्ष्यते, चतुर्थ्यां पौरुष्यां भूयः स्वाध्यायं कुर्यात् ॥ १८ ॥ अथ रात्रेश्चतुर्भागज्ञानस्योपायमाह
जं नेइ जया रत्तिं, नक्खत्तं तंमि नहचउब्भाए । संपत्ते विरमिज्जा, सज्झायं पओसकालंमि ॥ १९ ॥ तम्मेव य नक्खत्ते, गयणचउब्भागसावसेसंमि ।
वेरत्तियंपि कालं, पडिलेहित्ता मुणी कुज्जा ॥ २० ॥ यन्नक्षत्रं रात्रि समाप्तिं नयति यदा, अस्तसमये यन्नक्षत्रमुदेति, तस्मिन्नेव नक्षत्रे रात्रिः समाप्तीभवति । तस्मिन्नेव नक्षत्रे आकाशस्य चतुर्भागे सम्प्राप्ते विरमेत्, स्वाध्यायाद्विरमेत् । प्रदोषकाले - रजनीमुखे, तदा प्रदोषकालग्रहणं कृत्वा पश्चात्पौरुष्यांप्रथमायां सूत्रस्वाध्यायं कर्यात । तस्मिन्नेवनक्षत्रेगगनस्य आकाशस्यचतर्थे भागेसावशेषेसति वैरात्रिकं नाम कालम अपिशब्दात् स्वस्य स्वस्य समये कालं प्रतिलेख्य मुनिः कालग्रहणं कुर्यात् । ततश्चैतावता प्रथमे प्रहरे प्रादोषिकं कालं गृहीत्वा स्वाध्यायः कर्तव्यः, एवमन्येष्वपि ज्ञेयम् ॥१९-२०॥ सामान्येन दिनरात्रिकृत्यमुक्त्वा विशेषतो दिनकृत्यमाह
पुव्विल्लंमि चउब्भागे, पडिलेहित्ताण भंडगं ।
गुरुं वंदित्तु सज्झायं, कुज्जा दुक्खविमोक्खणं ॥२१॥
सूर्योदयादिवसस्य चतुर्थे भागे, सूर्योदयात्प्रथमे प्रहरे, चतुर्थे भागे एतावता प्रथमपौरुष्यां-प्रथमघटिकाद्वयमध्ये भाण्डकं वर्षाकल्पाद्युपधिवस्त्रशय्योपकरणादिकं प्रतिलेख्य गुरुं वन्दित्वा स्वाध्यायं कुर्यात् । कथंभूतं स्वाध्यायं ? दुःखविमोक्षणं पापनिर्मूलकम्॥२१॥