________________
२६, सामाचार्याख्यमध्ययनम् ]
[९१ पोरिसीए चउब्भागे, वंदित्ताण तओ गुरुं ।
अपडिक्कमित्ता कालस्स, भायणं पडिलेहए ॥२२॥ पौरुष्याश्चतुर्थे भागेऽवशेषे सति, पादोनपौरुष्यां जातायां सत्यां, ततो गुरुन् वन्दित्वा भाजनं-पात्रं प्रतिलेखयेत् । किं कृत्वा ? कालस्येति कालमप्रतिक्रम्य, प्राभातिककालप्रतिक्रमणार्थं कायोत्सर्गमकृत्वा, चतुर्थ्यां पौरुष्यां पुनः स्वाध्यायं करिष्यते, कालप्रतिक्रमणानन्तरं स्वाध्यायकरणमयुक्तं, तस्मात्कालमप्रतिक्रम्येत्युक्तम् ॥ २२ ॥ अथ प्रतिलेखनाविधिमाह
मुहपत्तियं पडिलेहित्ता, पडिलेहिज्ज गोच्छगं ।
गोच्छगलायांगुलिए, वत्थाइ पडिलेहए ॥ २३ ॥ मुखपोतिकां प्रतिलेख्य गोच्छकं-झोलिकोपरिसत्कमुर्णामयं वस्त्रं, तत्प्रतिलेखयेत् । ततोऽङ्गुलिलातगोच्छकः सन्, अङ्गुल्यां लातं-गृहीतं गोच्छकं येन सोऽङ्गुलिलातगोच्छकः, तादृशः सन् वस्त्राणि प्रतिलेखयेत् । झोलिकोपरिरक्षणीयपटलकरूपाणि वस्त्राणि प्रतिलेखयेत्, प्रस्तावात्प्रमार्जयेदित्यर्थः, दृष्ट्यादिकाः पञ्चविंशतिप्रतिलेखनाः कार्याः ॥ २३ ॥ अथ पटलगोच्छके प्रमृज्य पुनर्यत्कुर्यात्तदाह
उड्डूं थिरं अतुरियं, पुव्वं तावत्थमेव पडिलेहे ।
तो बिइयं पफोडे, तईयं च पुणो पमिज्जिज्जा ॥२४॥ पूर्वं तावत्प्रथमत ऊर्ध्वं यथा स्यात्तथा, स्थिरं यथा स्यात्तथा, अत्वरितं यथा स्यात्तथा वस्त्रमेव प्रतिलेखयेत् । ऊर्ध्वमिति कायत उत्कटिकासनो भूत्वा, ऊर्ध्वं तिर्यग् प्रसारयेत्, भूमावलगयन् वस्त्रं प्रतिलेखयेत् । पुनः स्थिरं दृढग्रहणेन, पुनरत्वरितमनुत्तालतया प्रतिलेखनीयमित्यर्थः । वस्त्रमिति जातित्वादेकवचनम् । पूर्वं दृष्ट्या आरतः परतश्च निरीक्षेतैव । ततो 'बिइयं' इति द्वितीयवारं हस्तोपरि प्रस्फोटयेत्, हस्तगतान् प्राणिनः प्रमार्जयेत् । पुनस्तृतीयवारं तद्वस्त्रं प्रमार्जयेद्धस्तोपरि प्रस्फोटयेत् ॥ २४ ॥
प्रस्फोटनविधिमाहअणच्चावियं अवलियं, अणाणुबंधि अमोसलिं चेव। छप्पुरिमा नव खोडा, पाणीपाणिविसोहणं ॥ २५ ॥
एवं वस्त्रप्रतिलेखनं कुर्यात्, कीदृशं वस्त्रं ? अनर्त्तितं, पुनरवलितं मोटनारहितं । वलदानरहितं, पुनरननुबन्धि, नैरन्तर्येण युक्तमनुबन्धि प्रोच्यते, तस्याऽभावोऽननुबन्धि, आन्तर्यसहितम् । कोऽर्थः ? यथा पूर्वापरप्रस्फोटनज्ञानं स्यात्, तथा प्रस्फोटनं विदध्यादिति