________________
९२]
[ उत्तराध्ययनसूत्रे - भाग - २
भावः । पुनरमोसलिमिति, न विद्यते मोसली यत्र तदमोसलि, ऊर्ध्वाधस्तिर्यग् कुड्यादिपरामर्शसहितं यथा न स्यात्तथा वस्त्रं प्रस्फोटयेत् प्रतिलेखयेदित्यर्थः, पुनरिमाः पूर्वमेव क्रियमाणाः षट् प्रस्फोटनामकाः प्रतिलेखनाक्रियाभेदाः कर्तव्याः । प्रथमं वारद्वयं वस्त्रस्य परावर्तनात् प्रस्फोटनात्रयेण त्रयेण च षट् भवन्ति । पश्चान्नव खोडा: हस्तोपरि प्रस्फोटनात्मकाः, क्षोटानां त्रिकत्रिककरणान्नव सम्भवन्ति । पुनः 'पाणौ पाणिविशोधनं - हस्ते हस्तविशोधनं प्रस्फोटनं विदध्यात्, हस्तं नावाकारं विधायाच्छोटनत्रिकत्रिकोत्तरकालं, एवं नव पूर्वोक्ताः, नव पुनश्च प्रस्फोटनविशेषाः, एवमष्टादशभेदाः, सप्त पूर्वोक्ताः, एवं पञ्चविंशतिविधाः प्रतिलेखना भवन्ति ॥ २५ ॥
अथ प्रतिलेखनादोषत्यागमाह
आरभडा सम्मद्दा,
वज्जेयव्वा य मोसली तइया । पप्फोडणा चउत्थी, विक्खित्ता वेड्या छट्ठी ॥ २६ ॥ पसिढिलपलंबलोला, एग्गमोसा अणेगरूवधुणा ।
कुणइ पमाणपमायं, संकिए गणणोवयं कुज्जा ॥ २७ ॥ ॥ युग्मम् ॥
आरभटा विधेर्विपरीतकरणम्, त्वरितं त्वरितं पृथक् पृथक् नवीनवस्त्रग्रहणं, एषा प्रथमा प्रमादप्रतिलेखना १ । सम्म वस्त्रान्तकोणानां परस्परमेलनम्, अथवोपधेरुपरि निषीदनम्, एषा द्वितीया प्रमादप्रतिलेखना २ । च पुन - स्तृतीया मोसल्यपि वर्जितव्या, उपर्यधोभागतिर्यगूप्रदेशसङ्घट्टना तृतीया प्रतिलेखना सप्रमाददोषा त्याज्या ३ | चतुर्थी प्रस्फोटना, रजसा खरण्टितस्य वस्त्रस्याच्छोटना, सापि वर्जनीया ४ । पञ्चमी विक्षिप्ता, प्रतिलेखितस्य वस्त्रास्याऽप्रतिलेखितवस्त्रोपरि मोचनम्, अथवा दिक्षु च विलोकनम्, इयमपि सप्रमादा प्रतिलेखना त्याज्या ५ । षष्ठी प्रतिलेखना वेदिकानाम्नी, सापि सप्रमादा त्याज्या ६ । वेदिकायाः पञ्च भेदाः - ऊर्ध्ववेदिका १, अधोवेदिका २, तिर्यग्वेदिका ३, उभयवेदिका ४, एकवेदिका ५ च । तत्रोर्ध्ववेदिका सा यस्यामुभयोर्जान्वोरुपरि हस्तयो रक्षणम् १ । अधोवेदिका सा यस्यां जान्वोरधः प्रचुरं हस्तयो रक्षणम् २ । तिर्यग्वेदिका सा यस्यां तिर्यग् हस्तौ कृत्वा प्रतिलेखनम् ३ । उभयवेदिका सा यस्यामुभाभ्यां जानुभ्यां बाह्ये उभयोर्हस्तयो रक्षणम् ४ । एकवेदिका सा यस्यामेकं जानु हस्तमध्ये, अपरं जानु बाह्ये रक्ष्यते ५ । एते पञ्चापि वेदिकादोषाः प्रतिलेखनावसरे त्याज्याः । स्त्रीलिङ्गत्वमत्र रूढिवशाद् ज्ञेयम् ॥ २६ ॥
अथ वस्त्रग्रहणे दोषमाह 'पसिढलेत्ति' प्रशिथिलं दृढमग्रहीतं वस्त्रम् १ । प्रलम्बं यद्विषमत्वग्रहणेन वस्त्रकोणकस्य ग्रहणेनाऽपर- कोणानां लम्बनम् २ | लोला यत्र भूमौ १ अन्यवृत्त्यामेवं- 'पाणौ' पाणितले प्राणिनां कुन्थ्वादिसत्त्वानां विशोधनम् ॥" बृहद्वृत्याम् - प० ५४१ A ॥