________________
[ ९३
२६,
सामाचार्याख्यमध्ययनम् ]
वस्त्रस्य रुलनं स्यात् ३ । एते त्रयो ऽपि दोषास्त्याज्या इति योज्यम् । एकामर्शा, एकस्मिन् काले उभयोः पार्श्वयोर्वस्त्रस्याकर्षणम् ४ । स्त्रीत्वं रूढिवशात् । अनेकरूपधुना, अनेकरूपा सङ्ख्यात्रयादधिका धुना कम्पना यस्यां साऽनेकरूपधुना । तथा यत्प्रमाणे प्रस्फोटनादिसङ्ख्यानां प्रमादं कुरुते । तथा शङ्किते शङ्कोत्पत्तौ मुखेन तथाङ्गुलिरेखास्पर्शनादिना गणनस्योपयोगं गणनोपयोगं कुर्यात्, तदपि दूषणं त्याज्यम्, एतत्प्रतिलेखनादूषणं ज्ञेयम् ॥ २७ ॥
पुनरेनामेव भङ्गकद्वारेण सदोषां निर्दोषां चाह
अणूणाइरित्तपडिलेहा, अविवच्चासा तहेव य ।
पढमं पयं पसत्थं, सेसाणि य अप्पसत्थाणि ॥ २८ ॥
अनूना ऊना न कर्तव्या १, अतिरिक्ता अधिका न कर्तव्या २, अविव्यत्यासा, विविधो व्यत्यासो यस्यां सा विव्यत्यासा, न विव्यत्यासा, अविव्यत्यासा, विपर्यासरहिता, विपरीतत्वेन रहितेत्यर्थः : ३, एतेषां त्रयाणां भेदानामष्टौ भङ्गा उत्पद्यन्ते तेषु भङ्गेषु प्रथमं पदं प्रशस्तं, प्रथमो भङ्गः समीचीनः, अन्यूना १, अनतिरिक्ता २, अविपर्यासा ३ इत्येवंरूपं प्रथमभङ्गरूपपदं प्रशस्तम्, निर्दोषत्वाच्छुद्धमित्यर्थः । शेषाणि च सप्तभङ्गान्यप्रशस्तानि ॥ २८ ॥ पुर्नदूषणोत्पत्तिकारणमाह
पडिलेहणं कुणतो, मिहोकहं कुणइ जणवयकहं वा ।
देइ व पच्चक्खाणं, वाएइ सयं पडिच्छइ वा ॥ २९ ॥
प्रतिलेखनां कुर्वन् साधुर्मिथः परस्परं कथां वार्तां चेत्करोति, अथवा जनपदकथांदेशकथां करोति, पुनः प्रतिलेखनां कुर्वन् कस्मैचित्प्रत्याख्यानं चेद्ददाति, पुनः प्रतिलेखनां कुर्वन्नपरं साधुं वाचयति-वाचनां ददाति, वाऽथवा प्रतिलेखनां कुर्वन् चेत्स्वयमालापादि प्रतीच्छति गृह्णाति ॥ २९ ॥
पुढवि आउक्काए, तेऊवाऊवणस्सइतसाणं । पडिलेहणापमत्तो, छण्हंपि विराहओ होइ ॥ ३० ॥
एतानि पूर्वोक्तानि कार्याणि कुर्वन् प्रतिलेखनायां प्रमत्तः प्रमादकर्त्ता साधुः षण्णामपि कायानां विराधको भवति । तेषां षट्कायानां नामान्याह - पृथ्वीकायः १, अकाय: २, तेजस्काय: ३, वायुकाय: ४, वनस्पतिकाय: ५, त्रसकायश्च ६, एतेषां सम्मर्दकः स्यात्, तत्कथं विराधको भवति ? कुम्भकारादिशालायां स्थितस्तत्र प्रमादवशात्प्रतिलेखनायां जलकुम्भादिपातनात्तेन पानीयेन मृत्तिकाग्निवायुकुन्थुकादिकास्त्रसाः स्थावराश्च जायन्ते तदा षण्णामपि विराधना स्यात्, यदाहार्हन्
"