________________
९४]
[ उत्तराध्ययनसूत्रे-भाग-२ 'जत्थ जलं तत्थ वणं, जत्थ वणं तत्थ सासओ अग्गी । तेऊवाऊसहिया, एवं छहंपि सह जोओ ॥ १ ॥ इति वचनात् ॥ ३० ॥ 'पुढवी आउक्काए, तेऊवाऊवणस्सइतसाणं ।
पडिलेहण आउत्तो, छण्हंपि आराहओ होइ॥३१॥ प्रतिलेखनायामायुक्तः-सावधानोऽप्रमादी साधुः पृथिव्यादीनां षण्णामपि कायानामाराधको भवति ॥३१॥इत्यनेन प्रथमपौरुष्याः कर्तव्यमुक्तम्, द्वितीयपौरुष्याः कर्तव्यं स्वाध्यायादिकं पूर्वमुक्तमेवाभूत् । अथ तृतीयपौरख्याः कृत्यमाह
तइयाए पोरिसीए, भत्तं पाणं गवेसए ।
छण्हमन्नतरागम्मि, कारणमि समुट्ठिए ॥ ३२ ॥ तृतीयायां पौरुष्यां भक्तपानं गवेषयेत्, अयमुत्सर्गिको नयः, स्थविरकल्पिकानां हि यथाकालं भक्तपानगवेषणमुक्तम् । क्व सति ? षण्णां कारणानां मध्येऽन्यतरस्मिन्नेकस्मिन् कारणे समुत्थिते सति ।आहारग्रहणस्य षट्कारणानि सन्ति,तैः कारणैराहारंकर्तव्यम्॥३२॥ तानि षट कारणान्याह
वेयणवेयावच्चे, इरियट्ठाए य संयमट्ठाए ।
तह पाणवत्तियाए, छटुं पुण धम्मचिंताए ॥ ३३ ॥ वेदनायाः क्षुत्पिपासादिरोगादिवेदनाया उपशमनाय, वेदना क्षन्तुं न शक्यते, प्राकृतत्वाद्विभक्तिलोपः, इति प्रथमं कारणम् १। तथा वैयावृत्त्याय-वैयावृत्त्यर्थं , यतो हि क्षुत्पिपासया पीडितो वैयावृत्यकृत्साधुराचार्यादीनां वैयावृत्त्यं कर्तुं न शक्नोति, एतद् द्वितीयं कारणम् २ । तथा 'इरियट्ठाए' ईर्यार्थायेर्यासमित्यर्थं, क्षुधातृषादितस्य निर्जरार्थिनोऽपि साधोश्चक्षुरिन्द्रियबलहीनस्य लघुजीवादिकमपश्यत ईर्यायाः पालनं न स्यात्, तदर्थमाहार करणं तृतीयं कारणम् ३।तथा पुनः संयमार्थाय-चारित्रस्य क्रियानुष्ठानातापनावश्यकाद्याराधनार्थं, यथा शकटाङ्गंघृतादिना संस्कृतमेव चलति,अन्यथा न चलति, एतच्चतुर्थं कारणम् ४।तथा पुनः- प्राणप्रत्ययाय, प्राणानां प्रत्ययो जीवितावधिधारणं प्राणप्रत्ययस्तस्मै प्राणप्रत्याय प्राणधारणार्थं, जीवितावधौ सम्पूर्णे जाते सत्येव प्राणमोचनं कर्तव्यम्, अन्यथात्महत्यादोषः स्यात्, तस्माज्जीवितव्यधारणार्थं , इदं पञ्चमं कारणम् ५ । षष्ठं पुनरिदं, यदुत धर्मचिन्तायै धर्मध्यानश्रुताभ्यासरूपायै भक्तपानं गवेषयेत्, क्षुत्तृषापीडितस्यार्त्तध्यानयुक्तस्य धर्मध्यानश्रुताभ्यासो न स्यात्, आगतमपि श्रुतं विस्मरतीति षष्ठं कारणम् ६ । ॥३३॥ १ यत्र जलं तत्र वनस्पतिः, यत्र वनस्पतिस्तत्र शाश्वतोऽग्निः ।
तेजोवायुसहितौ, एवं षण्णामपि सह योगः ॥१॥ २ इयं गाथा अन्यसंस्करणे न दृश्यते ॥