________________
२६, सामाचार्याख्यमध्ययनम् ]
निग्गंथो धिइमंतो, निग्गंथी वि न करिज्ज छहिं चेव । ठाणेहिं उ इमेहिं, अणइक्कमणा य से होइ ॥ ३४॥
निर्ग्रन्थ:- साधुर्धृतिमान् - धैर्यवान् तथा निर्ग्रन्थ्यपि साध्व्यपि षड्भिर्वक्ष्यमाणैः कारणैर्भक्तपानगवेषणां न कुर्यात्, यत एभिः स्थानैः 'स' इति तस्य साधोः साध्या वा आहारमकुर्वतोऽनतिक्रमणं भवति, संयमयोगानामुल्लङ्घनं न भवति । अन्यथाऽऽहारं त्यजतः साधोः संयमयोगस्यातिक्रमणमुल्लङ्घनं स्यादिति भावः ॥ ३४ ॥
तानि षट् कारणानि दर्शयति
-
आयंके उवसग्गे, तितिक्खया बंभचेरगुत्तीसु । पाणिदयातवहेऊ, सरीरवोच्छेयणट्ठाए ॥ ३५ ॥
[ ९५
आतङ्के ज्वरादिरोगे १, उपसर्गे देवादिकृतस्योपसर्गस्यागमने २, तथा ब्रह्मचर्यगुप्तिषु तितिक्षया हेतुभूतया यद्याहारं क्रियते, तदेन्द्रियाणि बलवन्ति स्युः, तदा ब्रह्मगुप्तिरक्षापि - दुष्करा, तस्माद् ब्रह्मगुप्तितितिक्षयाऽहारनिषेधः, एतत् तृतीयं कारणम् ३ । तथा प्राणिदया तो:, वर्षादौ निपतदप्कायादिजीवदयार्थं दर्दुरिकादिरक्षायै ४ । तपसो हेतोश्चतुर्थषष्ठादिवर्गतपोधनतपसोः करणहेतोर्वा पञ्चमं कारणम् ५ । पुनः शरीरव्यवच्छेदार्थाय उचितकाले संलेखनामनशनं कृत्वा शरीरत्यागायाहारं साधुर्न गवेषयेदिति सम्बन्धः, इति षष्ठं कारणम् ६ ॥ ३५ ॥
अथ तद्गवेषणायां विधिं क्षेत्रावधिं चाह
अवसेसं भंडगं गिज्झ, चक्खुसा पडिलेहए । परमद्धजोयणाओ, विहारं विहरए मुणी ॥ ३६ ॥
साधुरवशेषं-समस्तं_भ्राण्डकमुपकरणं गृहीत्वा चक्षुषा प्रतिलेखयेत्, ततः साधुः परमुत्कृष्टमर्धयोजनादर्धयोजनमाश्रित्य विहारं विहरेत्, अधिकं व्रजतो हि साधोः क्षेत्रातीत आहारदोषः स्यात्, तस्माद्योजनार्थं क्रोशद्वयमाहारार्थं विहारं विहृत्याहारमानीयोपाश्रये गुरोर आलोच्य विधिपूर्वकमाहारं कृत्वा यत्कर्तव्यं तदाह ।। ३६ ।।
चउथी पोरिसीए, निक्खिवित्ताण भायणं । सज्झायं तओ कुज्जा, सव्वभावविभावणं ॥ ३७ ॥
ततश्चतुर्थ्यां पौरुष्यां भाजनं निक्षिप्य झोलिकादौ बद्ध्वा ततः स्वाध्यायं कुर्यात् । कीदृशं स्वाध्यायं ? सर्वभावविभावनं सर्वजीवादिपदार्थप्रकाशकम् ॥ ३७ ॥ पोरिसीए चउब्भाए, वंदिताण तओ गुरुं । पडिक्कमित्ता कालस्स, सिज्जं तु पडिलेहए ॥ ३८ ॥