________________
७२]
[उत्तराध्ययनसूत्रे-भाग-२ जन्तूनामुत्पत्तिः स्यात् ३ । पुनः कीदृशे ? अचिरकालकृते, अग्न्यादिना स्तोकेन कालेनाचित्तीकृते ४ ॥१७॥पुनः कीदृशे ? विच्छिन्ने विस्तीर्णे (जघन्यतोऽपि हस्तप्रमाणे) ५ । पुनः कीदृशे ? दूरं ओगाढे, अधस्तादूरं सचित्ते, उपरिष्टादङ्गलपञ्चकं यावदचित्ते ६ । पुनः कीदृशे ? न आसन्नेऽनासन्ने, ग्रामाद् दूरवर्तिनि ७ । पुनः कीदृशे ? बिलजिते मूषकसर्पकीटकादिरन्ध्रवर्जिते ८ । पुनः कीदृशे ? त्रसप्राणैर्तीन्द्रियादिभी रहिते ९ । पुनः 'कीदृशे ? बीजैः शालिगोधूमादि-सचित्तधान्यै रहिते १० । एतादृशे दशविधविशेषणैर्विशिष्टे स्थण्डिले पूर्वोक्तानुच्चारादीन् व्युत्सृजेत् सन्त्यजेदिति भावः ॥ १८ ॥
एयाओ पंचसमिईओ, समासेण वियाहिया ।
इत्तो य तिओ गुत्तीओ, वुच्छामि अणुपुव्वसो ॥१९॥ एताः पञ्च समितयः समासेन-सक्षेपेण व्याख्याताः । इतोऽनन्तरं तिस्रो गुप्तीर्मनोगुप्तिवाग्गुप्तिकायगुप्तीरानुपूर्वीतोऽनुक्रमतो वक्ष्यामि ॥१९॥
सच्चा तहेव मोसा य, सच्चामोसा तहेव य ।
चउत्थी असच्चमोसा य, मणगुत्ती चउव्विहा ॥ २० ॥ - मनोगुप्तिश्चतुर्विधा, प्रथमा सत्या मनोगुप्तिः १, तथा द्वितीयाऽसत्या मनोगुप्तिः २, तथैव तृतीया सत्यामृषा मनोगुप्तिः ३, तथा चतुर्थी असत्याऽमृषा मनोगुप्तिः ४ । यत्सत्यं वस्तु मनसि चिन्त्यते, जगति जीवतत्त्वं विद्यते, इत्यादिचिन्तनस्य योगस्तदूपा गुप्तिः सत्या मनोगुप्तिः प्रथमा १ । यदसत्यं वस्तु मनसि चिन्त्यते, जीवो नास्तीत्यादीचिन्तनस्य योगस्तद्रूपा गुप्तिरसत्या मनोगुप्तिद्धितीया २ । बहूनां नानाजातीयानामाम्रादिवृक्षाणां वनं दृष्ट्वाऽऽम्राणामेव वनमेतद्वर्तते, तत्सत्यं पुनर्मूषायुक्तमेवेत्यादिचिन्तनयोगस्तदूपा गुप्तिः सत्यामृषा मनोगुप्तिस्तृतीया, यतोऽत्र काचित्सत्या चिन्तना, काचिन्मृषा चिन्तना, केचित्तत्र वने आम्राः सन्ति तेन सत्या, केचित्तत्र वने धवखदिरपलाशादयो वृक्षा अपि सन्ति तेन मृषाप्यस्ति ३ । चतुर्थी असत्यामृषा या चिन्तना, सत्यापि नास्ति, मृषापि नास्ति, यदादेशनिर्देशादिचिन्तनं, मनसि चिन्त्येत हे देवदत्त ! घटमानय अमुकं वस्तु मह्यमानीय दीयतां, इत्यादिचिन्तनाव्यवहाररूपा, तदूपा गुप्तिरसत्यामृषा मनोगुप्तिश्चतुर्थी, यत एषा चिन्तना सत्यापि नास्ति, मृषापि नास्ति, व्यवहारचिन्तनेत्यर्थः ४ ॥२०॥
संरंभसमारंभे, आरंभे य तहेव य ।
मणं पवत्तमाणं तु, नियत्तिज्ज जयं जई ॥२१॥ यतिः साधुर्यतनावान् सन् संरम्भसमारम्भे, तथैव चारम्भे प्रवर्तमानं मनो निवर्तयेत् । संरम्भश्च समारम्भश्चानयोः समाहारः संरम्भसमारम्भं तस्मिन् संरम्भसमारम्भे । संरम्भः १ कथंभूते-L.॥