________________
२४, प्रवचनमात्राख्यमध्ययनम् ]
[७३ सङ्कल्पः, अहं तथा ध्यानं करिष्यामि करोमि वा, यथासौ म्रियते मरिष्यतीत्यादिसङ्कल्पः संरम्भः, तत्र सङ्कल्पे प्रवर्तमानं मनो निवर्तयेत् । तथा समारम्भः परपीडाकरोच्चाटनकीलनादीनिबन्धनं ध्यानम्, तत्रापि प्रवर्तमानं मनो निवारयेत् । तथैव च पुनरारम्भः परप्राणापहारक्षमोऽशुभपरिणामः, तस्मिन् परिणामे प्रवर्तमानं मनो निवर्तयेत् ॥ २१ ॥ अथ वचनयोगं वदति -
'संकप्पो संरंभो, परितावकरो भवे समारंभो।
आरंभो उद्दवओ, सुद्धवयाईण सव्वेसिं ॥ २२ ॥ सर्वेषामशुद्धवचसामेते भेदा भवन्ति । कीदृशास्ते भेदाः ? परितापकराः, के ते भेदाः ? संरम्भः सङ्कल्प इत्याद्यर्थः पूर्ववदेव ॥ २२ ॥
सच्चा तहेव मोसा य, सच्चामोसा तहेव य ।
चउत्थी असच्चमोसा उ, वयगुत्ती चउव्विहा ॥ २३ ॥ वचनगुप्तिश्चतुर्विधा भवति । सत्या सत्यवाक्, तस्या योगः सत्यवाग्योगः, तदूपा गुप्तिः सत्या वाग्गुप्तिः १ । एवमसत्याऽसत्यवाक्, तस्या योगोऽसत्यवाग्योगः, तदूपा गुप्तिरसत्यवाग्गुप्तिः २ । तथा या सत्या वाग् सती, असत्यया वाचा सह मिलति सा सत्यामृषा वाग्गुप्तिस्तृतीया ३ । पुनश्चतुर्थी असत्यामृषा वाग्गुप्तिः, या सत्यापि नास्ति, मृषापि नास्ति, अर्थाद्वयवहारवाक् सा चतुर्थीत्यर्थः ४ ॥ २३ ॥
संरंभसमारंभे, आरंभे य तहेव य ।
वयं पवट्टमाणं तु, नियत्तिज्ज जयं जई ॥ २४ ॥ यतिः-साधुः 'जय' इति यतनावान् सन् संरम्भे समारम्भे तथैव चारम्भे प्रवर्तमानं वचो-वचनं निवर्तयेत् । संरम्भः परजीवस्य विनाशनसमर्थं दुष्टविद्यानां गुणनं, समारम्भः परेषां परितापकारकुमन्त्रादीनां मुहुर्मुहुः परावर्तनम्, तथैव चारम्भः परेषां क्लेशोच्चाटनमारणादिमन्त्रजापकरणम्, तत्रापि प्रवर्तमानं वचो निवारयेत् ॥ २४ ॥
इत्यनेन वाग्गुप्तिरेवोक्ता, अथ कायगुप्तिमाहठाणे निसीयणे चेव, तहेव य तुयट्टणे । उल्लंघणपल्लंघणे, इंदियाण य जुंजणे ॥ २५ ॥ संरंभे समारंभे, आरंभंमि तहेव य ।
कायं पवत्तमाणं तु, नियत्तिज्ज जयं जई ॥२६॥युग्मम् ॥ १ इयं गाथा अन्यसंस्करणे नास्ति ।