________________
२४, प्रवचनमात्राख्यमध्ययनम् ]
अथ पञ्चमीं समितिं प्राह
उच्चारं पासवणं, खेलं सिंघाणजल्लियं । आहारं उवहिं देहं, अन्नं वावि तहाविहं ॥ १५ ॥ अणावायमसंलोए, अणावाए चेव होइ संलोए । आवायमसंलोए, आवाए चेव संलोए ।। १६. ॥ अणावायमसंलोए, परस्सऽणुवघाइए । समे अज्झसिरे यावि, अचिरकालकयंमि य ॥ १७ ॥ विच्छिन्ने दूरमोगाढे, नासन्ने बिलवज्जिए । तसपाणबीयरहिए, उच्चाराईणि वोसिरे ॥ १८ ॥ चतसृभिः कलापकम् ॥
साधुरुच्चारादीन्येतादृशे स्थण्डिले व्युत्सृजेत् परिष्ठापयेदिति चतुर्थ्या गाथया सम्बन्धः । तानि कानि ? उच्चारादीनि, उच्चारं पुरीषम्, प्रश्रवणं मूत्रं, खेलं कफः, सिङ्घाणं श्लेष्म, जल्लकं शरीरमलं, आहारमन्नादिकं, उपधि जीर्णवस्त्रादिकं, देहं शरीरं, अन्यत्तथाविधपरिष्ठापनायोग्यं भेषजाद्यर्थमानीतं गोमूत्रादिकं एतत्प्रासुके स्थण्डिले परिष्ठापयेत् ॥ १५ ॥ पूर्वं स्थण्डिलस्य चतुर्भङ्गीमाह- अनापातेऽसंलोके, न विद्यते आपातः स्वपक्षीयपरपक्षीयाणामापातो गमनागमनं यत्र तदनापातम्, पुनर्यदसंलोकं भवति, न विद्यते लोकानां संलोको - दूराद् दृष्टिप्रचारो यत्र तदसंलोकम् । कोऽर्थः ? यत्र स्थण्डिले प्रायो गृहस्थः कोऽपि नायाति, यत्र च स्थण्डिले प्रायो दूराद् गृहस्थानां दृष्टिप्रचारो न स्यात्, , तत्र स्थण्डिले इत्यर्थः, इति प्रथमो भङ्गः १ । पुनर्यत्स्थण्डिलमनापातं भवति, परं संलोकं भवति, लोकानामुप्रागमनरहितं भवति, अथ च लोकानां दूरात्संलोकसहितंदृष्टिप्रचारसहितं भवतीति द्वितीयो भङ्गः २ । पुनर्यत्स्थण्डिलं लोकानामापातसहितमुपागमनसहितं भवति, अथ च दूराल्लोकानां संलोकरहितं 'दृक्प्रचाररहितं भवति, अयं तृतीयो भङ्गः ३ । पुनर्यत्स्थण्डिलमापातं लोकानामुपागमनसहितं भवति, अथ च संलोकं दूराल्लोकानां दृष्टिप्रचारसहितमपि भवति, अयं चतुर्थो भङ्गः ४ ॥ १६ ॥
'अणावायेति' तत्र चतुष्षु भेदेष्वनापातेऽसंलोके स्थण्डिले उच्चारादीनि व्युत्सृजेत् । कथंभूते स्थण्डिले ? दशविधविशेषणविशिष्टे, तानि दशविशेषणान्याह - कथंभूते - स्थण्डिले ? परस्याऽनुपघातके, यत्रान्यस्योपघातो न स्यात्, संयमस्यात्मनः प्रवचनस्य बाधारहिते - हीलारहिते १ । पुनः कीदृशे ? समे निम्नोन्नतत्वादिरहिते २ । पुनः कीदृशे ? 'अज्झसिरे अपि' अज्जूसिरे इति घासवृक्षपत्रकाष्ठादिभिरव्याप्ते, तत्र हि परिष्ठापिते १ दृष्टिप्रचारं - L. ॥
[ ७१