________________
७०]
[उत्तराध्ययनसूत्रे-भाग-२ येन द्रव्येण दर्वी करो वा लिप्तः स्यात्तदा पश्चात्कर्मत्वे लिप्तपिण्डो नवमो दोषः स्यात् ९ । यदा सिक्थानि घृतदधिदुग्धादिबिन्दून् पातयन्नाहारं ददाति, तथा छर्दितो दशमो दोषः स्यात् १० । इति ग्रहणैषणायां दायकग्राहकयोरन्योन्यं दोषसम्भवः । एवं सर्वमीलने द्विचत्वारिंशद्दोषा भवन्ति । ____ अथ परिभोगैषणायां-ग्रासैषणायां पञ्च दोषाः सम्भवन्ति । तद्यथा-क्षीरखण्डघृतादिदव्यं सम्मील्य रसलौल्येन भुङ्क्ते तदा संयोजनादोषः प्रथमः १ । यावत्प्रमाणः सिद्धान्ते पुरुषस्याहार उक्तोऽस्ति तस्मादाहारप्रमाणात्स्वादलोभेनाधिकमाहारं यदा करोति, तदाऽप्रमाणो द्वितीयो दोषः २ ।यदा सरसाहारं कुर्वन् धनवन्तं दातारं वर्णयति तदेङ्गालदोषस्तृतीयः ३ । विरसमाहारं कुर्वन् दरिद्रं कृपणं वा निन्दति, तदा चतुर्थो धूमदोषः ४ । यदा तपःस्वाध्यायवैयावृत्त्यादिकारणषट्कं विना बलवीर्याद्यर्थं सरसाहारं करोति तदा पञ्चमोऽकारण दोषः ५ एते पञ्च दोषा: परिभोगैषणाया ज्ञेयाः । एवं सर्वे सप्तचत्वारिंशद्दोषा भवन्ति । परिभौगेषणायां चतुष्कं दोषचतुष्टयं सूत्रे उक्तम्, तत्त्विगालधूमयोर्मोहनीयकर्मोदयादेव दायकस्य प्रशंसातो निन्दातश्च प्रादुर्भावादेकत्वमेवाङ्गीकृतं, तस्माच्चत्वार एव दोषा गृहीताः । एवं षट्चत्वारिंशद्दोषा भवन्ति । अथवा परिभोगैषणायां परिभोगसमये आसेवनासमये पिण्ड १, शय्या २, वस्त्र ३, पात्रं ४, चैतच्चतुष्कं विशोधयेत्, अयमप्यर्थो विद्यते , इत्यनेन 'उग्गमुप्पायणं पढमे' इति गाथाया अर्थः ॥ १२ ॥ इत्येषणासमितिः । अथ चतुर्थी समिति प्राह -
ओहोवहोवग्गहियं, भंडगं दुविहं मुणी । गिण्हंतो निक्खिवंतो य, पउंजिज्ज इमं विहिं॥१३॥
ओघोपधिकं सामुदायिकम्, उपग्राहिकौपधिकं, उपगृह्यते वारंवारं यत्तार्थमित्युपग्राहिकं रजोहरणपोतिकादिकम् । अत्रोपधिशब्दस्य प्रत्येकं प्रयोगः । एवं भाण्डमुपकरणं द्विविधं भवति, रजोहरणदण्डकादिकं द्विप्रकारं वर्तते, मुनिस्तं द्विविधमपि भाण्डं गृह्णन्, च पुनर्निक्षिपन् मुञ्चन्निमं विधिं प्रयुञ्जीत ॥ १३ ॥
तं विधि प्राहचक्खुसा पडिलेहित्ता, पमज्जिज्ज जयं जयी ।
आइए निक्खिविज्जा वा, दुहओ विसमिओ सया ॥१४॥
यत्लावान् यतिर्यत्नया चक्षुषा प्रतिलेख्य प्रमार्जयित्वा सदा समितः सन्नादाननिक्षेपणासमितियुक्तः सन् अथवा द्रव्यभावभेदेन समितः - समितियुक्तः सन् द्विविधमप्युपधिमोधिकमथोपग्राहिकं गृह्णीताऽऽददीत, वाऽथवा मुञ्चन्निक्षिपेत् ॥ १४ ॥