________________
२४, प्रवचनमात्राख्यमध्ययनम् ]
[६९ गृहस्थस्य स्तुति विधत्ते, आहारं च गृह्णाति तदा संस्तवदोष एकादशः ११ । यदा विद्यया सुरं साधयित्वा भोजनं साधयति, तदा विद्यापिण्डो द्वादशो दोषः, अथवा विद्यां पाठयित्वा ग्रन्थमध्याप्य भोजनादिकं गृहस्थाद् गृह्णाति, तदा विद्यापिण्डो द्वादशो दोषः १२ । यदा कार्मणं-मोहनं यन्त्रमन्त्रं साधयित्वा कृत्वा दत्वाऽऽहारादिकं गृह्णाति तदा मन्त्रदोषस्त्रयोदशः १३ । यदा अदृश्यीकरणाद्यं जनमोहनचूर्णयोगेनाहारं गृह्णाति तदा चतुर्दशश्चूर्णयोगो दोषः १४ । यदा मुग्धलोकान् सौभाग्यादिविलेपनराजवशीकरणादितिलकेन जलस्थलमार्गोल्लङ्घनसुभगदुर्भगविधिमुपदिश्याहारं गृह्णाति, तदा योगपिण्डदोषः पञ्चदशः १५ । यदा पुत्रादिजन्मदूषणनिवारणार्थं मघाज्येष्ठाश्लेषामूलादिनक्षत्रशान्त्यर्थं मूलैः स्नानमुपदिश्याहारादिकं गृह्णाति, तदा षोडशो मूलकर्मदोषः १६ । एवमुद्गमोत्पादनादिदोषाः, सर्वेऽपि गवैषणायां द्वात्रिंशद्दोषा भवन्ति, ३२। ___अथ द्वितीयायां ग्रहणैषणायां दश दोषाः कथ्यन्ते-यदा दायकः शङ्कां कुर्वन् ददाति, साधुरपि जानात्यसौ दायकः शङ्कां करोति, एवं सत्याहारं गृह्णाति, तदा प्रथमं शङ्कितो दोषः १ । द्वितीयो म्रक्षितो दोषः, स द्विविधः, सचित्तेन खरण्टित आहारःअचित्तेन खरण्टितश्चाहारो भवति, तदा प्रक्षितदोष उच्यते २ । यदा पृथिव्यां जलेऽग्नौ वनस्पतिमध्ये त्रसजीवानां मध्ये निक्षिप्तमाहारं ददाति, निक्षिप्तस्तृतीयो दोषः ३ । यदाऽचित्तमाहारमपि सचित्तेनाच्छादितं स्यात्तदा पिहितदोषश्चतुर्थः । पिहितदोषस्य चतुर्भङ्गी यथा-सचित्तमाहारं सचित्तेन पिहितं १ । अचित्तमाहारमचित्तेन पिहितं २ । अचित्तमाहारं सचित्तेन पिहितं ३ । सचित्तमाहारमचित्तेन पिहितं ४ । एवं चतुर्भङ्ग्यामचित्ताहारमचित्तेन पिहितमत्र कोऽपि न दोषः ४ । यदा बृहद्भाजने स्थितमाहारंतत्रस्थभाजनेन दातुमशक्यत्वेन तद्भाजने स्थितमपरत्रोत्तार्य, अथवा तस्माद्भाजनादपरस्मिन् भाजने उत्तार्याहारं ददाति स संहृतदोषः पञ्चमः ५ । यदा असमर्थः पण्डकः शिशुः स्थविरोऽन्ध उन्मत्तो मत्तो ज्वरपीडितः कम्पमानशरीरो निगडबद्धो हडे क्षिप्तो गलितहस्तश्छिन्नपादः, एतादृशो वा दाता ददाति तदा दायकदोषः, पुनर्यदा कश्चिदायिका दायको वाऽग्नि प्रज्वालयन्, अरहट्टकं भ्रामयन्, घरट्टके चान्नपीषणं कुर्वन्, मुशलेन खण्डयन्, शिलायां लोष्टकेन वर्तयन्, चरख्यां कासादिकं लोढयन्, रुतं वा पिञ्जयन्, सूर्पकेण धान्यामाच्छोटयन्, फलादिकं विदारयन, प्रमार्जनेन रजः प्रमार्जयन्, इत्याद्यारम्भं कुर्वन्, तथा भोजनं, स्त्री च या सम्पूर्णगर्भा स्थिता भवति, पुनर्या च स्त्री बालं प्रति स्तन्यं पाययन्ती, पुनस्तं बालं रुदन्तं मुक्त्वाऽऽहारदानायोत्तिष्ठति, पुनर्यः षट्कायसम्मर्दनं सङ्घट्टनं वा कुर्वन् साधुं दृष्ट्वा हण्डिकोपरिस्थमग्रपिण्डमुत्तारयति, इत्यादयो बहवो दायकदोषाः इति षष्ठो दायकदोषो ६ । यदाऽनाभोगेनाऽविचार्यैव शुद्धाशुद्धमाहारं सम्मील्य ददाति, तदा सप्तम उन्मिश्रितदोषः ७ । यदा द्रव्येणाऽपरिणतमाहारं, भावेनोभयोः पुरुषयोराहारं वर्तते, तन्मध्ये एकस्य साधवे दातुं मनोऽस्ति, एकस्य च नास्ति, तदाहारमपरिणतदोषयुक्तं स्यात्, इत्यपरिणतदोषश्चाष्टमः ८ । सदा दधिदुग्धक्षरेय्यादिद्रव्यं,