________________
६८]
[ उत्तराध्ययनसूत्रे-भाग-२ मद्यबिन्दुजाऽशुचिः स्यात्, तथा पूतिकर्मणा विशुद्धाहारमप्याकर्मिकयोगात्पूतिकं स्यात् अयं तृतीयो दोषः ३ । अथ चतुर्थो मिश्रकर्मदोषः, किञ्चित्साधुनिमित्तम्, किञ्चिदात्मा) गृहस्थो यदाहारं कारयति तदा मिश्रितदोष उत्पद्यते ४ । अथ पञ्चमं स्थापनाकर्म, स्थाप्यते साधुनिमित्तमिति स्थापना, यदा साधुरायास्यति तदा साधवे दास्यामीति विचार्य यदाहारं रक्षितं, तदाहारं स्थापनाकर्मदोषयुक्तं स्यात् ५ ।अथ षष्ठो दोषः प्राभृतिकः, गृहस्थः स्वगृहे उत्सवं ज्ञात्वा सङ्खडिकस्य परावृत्तिं करोति स प्राभृतिको दोषः ६ । अन्धकारे उद्योतं कृत्वा मुनये आहारं यदा दीयते तदा प्रादुष्करणदोषः सप्तमः ७ । यदा गृहस्थो मौल्येनानीय साधवे ददाति तदा क्रीताख्यो दोषश्चाष्टमो ज्ञेयः ८ । यदा गृहस्थः साधुनिमित्तमुद्धारकमानीयाहारादिकं ददाति, तदा नवमः प्रामित्यदोषः ९ ।यदाहारादिकं परावृत्य सरसनीरसयोः परावर्तनं कृत्वा साधवे ददाति तदा दशमः परावर्तदोषो भवति १० । यदा स्वगृहादहिामाऽहारादिकं मुनिसन्मुखमानीय मुनये दीयते, तदाऽभ्याहृतो दोष एकादशः स्यात् ११ । . यदा कोष्टकादौ-गर्भगृहादौ मुद्रितमुद्घाट्याहारादिकं निष्कास्य दीयते तदोद्भिन्नदोषो द्वादशः स्यात् १२ । यदोच्चस्थानादुत्तार्यानीयाहारादि ददाति तदा मालापहृतस्त्रयोदशो दोषः स्यात्, एवं नीचैरपि दुःखीभूय ददाति, तदापि स एव मालापहृतो दोषः स्यात् १३ । यदा कस्माच्चिन्निर्बलादुद्दाल्याहारादिकं ददाति, तदाच्छिद्यश्चतुर्दशो दोषः १४ । यदा द्वित्राणां पुरुषाणां साधारणे आहारे एकोऽन्याननापृच्छ्य साधवे ददाति, तदा पञ्चदशोऽनिसृष्टो दोषः १५ । यदा स्वनिमित्तमाहारे राध्यमाने साधुनिमित्तमपि तस्मिन्नाहारेऽधिकं हण्डिकायां पूर्यते तदाऽध्यवपूरो दोषः षोडशः १६ । एते षोडशोद्गमदोषाः, एते दायकाद्दोषा उत्पद्यन्ते ।
अथाऽनगारात् षोडश दोषा उत्पद्यन्ते ते चोत्पादनदोषा अमी-प्रथमो धात्रीदोषः, यदा साधुर्गृहस्थस्य बालकान् चिपिटिकादिभिः क्रीडयित्वा धात्रीवत्प्रमोदमुत्पाद्याहारं गृह्णाति, तदा प्रथमो धात्रीदोषः १ ।यदा गृहस्थगृहे गुप्तप्रकटसमाचारान् स्वजनादीनां कथयित्वाऽऽहारं गृह्णाति तदा दूतकर्माख्यो द्वितीयो दोषः २ । यदा लाभालाभजीवितमृत्युसुखदुःखादिनिमित्तं त्रिकालस्थं गृहस्थाने उक्त्वाऽहारं गृह्णाति तदा निमित्तदोषस्तृतीयः ३ । यदा गृहस्थस्य ज्ञाति कुलं ज्ञात्वाऽऽत्मीयमपि साधुस्तमेव ज्ञाति, तदेव कुलं च प्रकाश्याहारं गृह्णाति तदाऽऽजीविकादोषश्चतुर्थः ४ । यदा स्वकीयं दीनत्वं दयालुत्वं गृहस्थाने प्रकटीकृत्याहारादिकं गृह्णाति तदा वनीपको दोषः पञ्चमः ५ । यदा वैद्यवन्नाडिकां दृष्ट्वा वमनविरेचनाजीर्णज्वरादीनां भेषजमुपदिश्य वैद्यकं कृत्वाऽऽहारं गृह्णाति तदा चिकित्सादोषः ६ । यदा गृहस्थं भापयित्वा, शापं दत्वाऽऽहारं गृह्णाति तदा क्रोधपिण्डः सप्तमो दोषः ७ । यदा साधुनां समक्षं पणं कृत्वा, तदाहं लब्धिमान् यदा भवतां सरसमाहारममुकगृहादानीय ददामि, इत्युक्त्वा गृहस्थं विडम्ब्य गृह्णाति तदाऽष्टमो मानपिण्डदोषः ८ ।यदा मायां कृत्वा लोभाद्वेषं परावृत्याहारं गृह्णाति तदा मायापिण्डो नवमो दोषः ९ । यदा लोभेन सरसाहारलौल्येन भ्रान्त्वा भ्रान्त्वाऽऽहारं गृह्णाति तदा लोभपिण्डो दशमो दोषः १० । यदा पूर्वं पश्चाद्वा