________________
२४, प्रवचनमात्राख्यमध्ययनम् ]
[६७ तथा मितां-स्वल्पां भाषां भाषेत । किं कृत्वा ? एतान्यष्टौ स्थानान्युपयुक्ततयेकाग्रत्वेन परित्यज्य-त्यक्त्वा । एतान्यष्ट स्थानानि कानि ? क्रोधो १, मानो २, माया ३, लोभश्च ४, हास्य५, भयं ६, मौखरिका ७, विट्चेष्टा असम्बद्धवचनभाषणं वा, विकथां ८ च राज्यादिचतुर्विधाम् । एतान्यष्टावसत्यवाक्यस्थानानि । तस्मात्प्रत्येकं क्रोधे माने मायायां लोभे च हास्ये भये मौखरिकायां तथैव विकथासु च मृषादिरूपमसद्वाग्योगं परिहत्याऽसावद्यां - निर्दोषां, परिमितां प्रस्तावे भाषां वदेदित्यर्थः ॥९॥ १० ॥ अथैषणासमितिमाह -
गवेसणा य गहणे य, परिभोगेसणा य जा।
आहारोवहिसिज्झाए, एए तिन्नि विसोहिए ॥११॥ गवेषणायामेषणा गवेषणैषणा, गौरिवैषणा गवैषणा, विशुद्धाहारदर्शन विचारणा प्रथमैषणा १, द्वितीया ग्रहणैषणा, विशुद्धाहारस्य ग्रहणं ग्रहणैषणा २, तृतीया परिभोगैषणा, परि-समन्ताद् भुज्यते आहारादिकमस्मिन्निति परिभोगो मण्डलीभोजनसमयः, तत्रैषणा विचारणा परिभोगैषणा ३, एतास्तिस्त्रोऽप्येषणा आहारोपधिशय्यासु विशोधयेत्, केवलमाहारेएवैता एषणा न भवेयुः, किन्तु आहारे, उपधौ-वस्त्रपात्रादौ,शय्या-उपाश्रयः संस्तारकादिश्च, तत्र सर्वत्रैषणा विधेयेत्यर्थः ॥११॥
उग्गमुप्पायणं पढमे, बिइए सोहिज्ज एसणं । .. परिभोगंमि चउक्कं च, विसोहिज्ज जयं जइ ॥१२॥
'जयं' इति यत्नावान् 'जइ' इति यतिः-साधुः प्रथमे इति प्रथमायां गवैषणैषणायामुद्गमोत्पादनान् दोषान् विशोधयेद्विशेषेण विचारयेत् । पुनः साधुद्धितीयायां ग्रहणैषणायां शङ्कितादिदोषान् विचारयेत् । पुनस्तृतीयायां परिभोगैषणायां चतुष्कं दोषचतुष्टयं विशोधयेत् ॥१२ ॥ इति गाथार्थः ।
अत्र प्रथमायां गवैषणैषणायां द्वात्रिंशद्दोषा भवन्ति । तद्यथा-प्रथमं षोडशोद्गमदोषाः, उद्गमशब्देनाधाकर्मकादिषोडशदोषाः, एते दोषा गृहस्थादेवोत्पद्यन्ते । तथा गवैषणैषणायामेव षोडशोत्पादनादिदोषा भवन्ति । उत्पाद्यन्ते साधुना ये ते उत्पादनाः, साधोः सकाशादेव षोडश दोषा उत्पद्यन्ते, ते च धात्रीप्रमुखाः, एवं द्वात्रिंशद्दोषाः । द्वितीयायामेषणायां ग्रहणैषणायां शङ्कितादिदशदोषा उभयतो दायकाद् ग्राहकाच्च भवन्ति, एवं द्विचत्वारिंशद्दोषा भवन्ति । तत्र प्रथम आर्धकर्मिकः, अर्धकर्मणि भव आर्धकर्मिकः, यदाहारं गृहस्थेन सर्वान् दर्शनिनः, सर्वान् लिङ्गिन उद्दिश्य कृतमार्धकर्मिकमुच्यते १ । साधुयोगे सति यदुद्दिश्य कृत्वा दीयते तदुद्देशिकमुच्यते अयं द्वितीयो दोषः २ । बहुतरे विशुद्धे आहारे आर्धकर्मिकाहारकरणैर्युक्तं भवति, तदा पूतिकर्मदोषः, यथा शुचिः पयोधरोऽप्येकेन