________________
, ६६]
[ उत्तराध्ययनसूत्रे-भाग-२ दव्वओ खित्तओ चेव, कालओ भावओ तहा ।
जयणा चउव्विहा वुत्ता, तं मे कित्तयओ सुण ॥६॥ तीर्थङ्कररित्यध्याहारः, तीर्थङ्करैर्गणधरैश्चतुर्विधा यतनोक्ता, तां चतुर्विधां यतनां 'मे' मम कथयतस्त्वं श्रृणु-भो शिष्य ! तदेव चतुर्विधत्वमाह-द्रव्यतो यतना, च पुनः क्षेत्रतो यतना, कालतो यतना, तथा भावतो यतना ॥६॥ अथ द्रव्यतः कथं यतना ? तमाह
दव्वओ चक्खुसा पेहे, जुगमित्तं च खित्तओ।
कालओ जाव रीएज्जा, उवउत्ते य भावओ॥७॥ दव्यतो द्रव्यमाश्रित्यैवं यतना, यच्चक्षुषा जीवादिदव्यं विलोकयेत् । क्षेत्रतः खेत्रमाश्रित्य युगमात्रं चतुर्हस्तप्रमाणं क्षेत्रं मार्ग प्रेक्षेत-विलोकयेत्, इयं क्षेत्रतो यतना । कालतः - कालमाश्रित्येयं यतना यावत्कालं-यावत्कालप्रमाणेन रीयते-गमनं विधीयते, सा च कालयतना । यः साधुरुपयुक्तस्तत्र्यायां सावधानः स्यात् सा भावतो यतना ज्ञेया ॥७॥ अथोपयुक्तत्वमेव विस्तरेण वर्णयति
इंदियत्थे विवज्जित्ता, सज्झायं चेव पंचहा ।
तम्मुत्ती तप्पुरक्कारे, उवउत्ते इरियं रिये ॥ ८ ॥ साधुरुपयुक्तः सन् ईर्यायां साधुयोग्यायां गतौ रीयेद्-व्रजेत् । किं कृत्वा ? पञ्चेन्द्रियार्थान् पञ्चानामिन्द्रियाणामान्-विषयान् विवi, च पुनर्वाचनादिभेदतः पञ्चप्रकारं स्वाध्यायं विवर्ण्य, पुनः साधुः कीदृशः सन्नीर्यायां रीयेत् ? तन्मूर्तिः सन्, तस्यामीर्यासमिती मूर्तिः - शरीरं यस्य स तन्मूर्तिः, न तु यतस्ततः शरीरं धूनयन् गच्छेत्, कायचापल्यरहित इति भावः । पुनः कीदृशः साधुः ? तत्पुरस्कारः, तामेव पुरस्करोतीति तत्पुरस्कारः, तामीर्यासमिति प्राधान्येनाङ्गीकुरुते इत्यर्थः । अनेन कायमनसोस्तत्परतोक्ता, एवमुपयुक्तः-सावधानो विचरेदित्यर्थः ॥८॥
अथ द्वाभ्यां गाथाभ्यां भाषासमितिमाह
कोहे माणे य माया य, लोभे य उवउत्तया । हासे भये मोहरिए, विगहासु तहेव य ॥ ९ ॥ एयाइं अट्ठठाणाइं, परिवज्जित्तु संजए ।
असावज्जं मिअं काले, भासं भासिज्ज पन्नवं ॥१०॥ 'पन्नवं' इति प्रज्ञावान् संयतः काले-प्रस्तावे भाषायाः समयेऽसावधां-निष्पापां,