________________
२४, प्रवचनमात्राख्यमध्ययनम् ]
[६५ उच्यन्ते । तस्मादेतासामष्टानामपि समितिसंज्ञोच्यते । यत्तु पूर्वं पञ्चानां समितिसंज्ञा, तिसृणां च गुप्तिसंज्ञा, तत्कथञ्चिद्भेदख्यापनार्थम् । यत्र यास्वष्टासु मातृषु द्वादशाङ्गं जिनाख्यातं प्रवचनं श्रुतं चारित्रं वा 'माय' इति मातम्, सम्पूर्णत्वेन संस्थितम् । यतो हि सर्वा एता अष्टावपि चारित्ररूपाः, चारित्रं हि ज्ञानदर्शनं विना न भवति, ज्ञानदर्शनचारित्रेभ्योऽतिरिक्तं द्वादशाङ्गं न भवति । तस्माद् द्वादशाङ्गयष्टासु मातृषु स्थिता, तेनैतासां प्रवचनजननी संज्ञा ॥३॥ प्रथममीर्यासमितिस्वरूपमाह
आलंबणेण १ कालेण २, मग्गेण ३ जयणाइ ४ य।
चउकारणपरिसुद्धं, संजए इरियं रिए ॥ ४ ॥ संयतः साधुरेभिश्चतुभिः कारणैः परिशुद्धया निर्दोषया ईर्याया - निर्दोषया गत्या रीयेत-गच्छेत्, प्राकृतत्वात् तृतीयास्थाने प्रथमा । तानि चत्वारिकारणानि कानि ? आलम्ब्यते निश्चलः क्रियते मनो येनेत्यालम्बनं, तेनालम्बनेन १, पुनर्द्वितीयं कारणं काल ईर्यायाः समयस्तेन कालेन २, पुनस्तृतीयं कारणं मार्गः पन्था, तेन विहारयोग्यमार्गेण ३, पुनश्चतुर्थं कारणं यतना यतनं, यतना-जीवदया, तया यतनया ४, एवं चतुर्भिः कारणैः शुद्ध्या गत्या साधुना गन्तव्यमिति भावः ॥ ४ ॥
पूर्वं चतुर्णा कारणानां नामान्युक्त्वाथ विस्तरेण वर्णयति__ तत्थ आलंबणं नाणं, दंसणं चरण तहा ।
काले य दिवसे वुत्ते, मग्गे उप्पहवज्जिए ॥५॥ तत्र चतुष्षु कारणेष्वालम्बनं, यदालम्बनं गमनमनुज्ञायते तदालम्बनम् । यतो ह्यालम्बनं विना निरर्थकं गुरुभिर्गमनमनुज्ञातं नास्ति, तदालम्बनं ज्ञानं सूत्रं अर्थं तदुभयं सूत्रार्थज्ञानं सिद्धान्तपठनपाठनम् । ततो दर्शनं-सम्यक्त्वं तत्त्वरुचिरूपम्, तस्य ग्रहणं ग्राहणं वा, तदपि कारणम्, पश्चाच्चरणं-चारित्रं, अत्र चारित्रशब्देन सामायिकादिकम् ।
'सामाइयं समईयं, सम्मावाओ समास संखेवो ।
अणवज्जं च परिण्णा, पच्चक्खाणे य ते अट्ठ ॥ १ ॥ [आवश्यक नियुक्तिः ८६४] इत्याद्यपि कारणम् । यतो हि ज्ञानार्थं दर्शनार्थ चारित्रार्थम्, एवं द्वयोरर्थम्, एवं पृथक् पृथक्, एवं त्रयाणामप्यर्थम्, एवमष्टादश भेदा भवन्ति । च पुनः काल ईर्यायाः समयो दिवस एवोक्तः, न तु रात्रिर्यायाः समयोऽस्ति । रात्रौ हि विहारं कुर्वतः साधोरीर्याशुद्धिर्न स्यादित्यर्थः ।मार्गस्तूत्पथवर्जनमुन्मार्गस्य त्यागः, उन्मार्को चलमानस्यात्मनः संयमस्य विराधना स्यात् ॥५॥ १ सामायिकं समयिकं, सम्यग्वादः समासः संक्षेपः । अनवद्यं च प्रतिज्ञा, प्रत्याख्यानश्च ते अष्टौ ॥१॥