________________
२३, केशिगौतमीयाख्यमध्ययनम् ]
[६१ सर्वस्मिन् लोके सर्वेषां प्राणिनां-सर्वजीवानां कः पदार्थ उद्योतं करिष्यति ? प्रकाशं करिष्यति ? न किञ्चित्तादृशं पश्याम इति भावः ॥ ७५ ॥
उग्गओ विमलो भाणू, सव्वलोगप्पभंकरो ।
सो करिस्सइ उज्जोयं, सव्वलोगंमि पाणिणं ॥७६ ॥ गौतमः प्राह-हे केशीमुने ! सर्वलोकप्रभाकरो विमलो भानुरुद्गतः, स भानुः सर्वस्मिन् लोके सर्वेषां प्राणिनामुद्योतं करिष्यति । सर्वस्मिन् लोके प्रभां करोतीति सर्वलोकप्रभाकरः, सर्वलोकालोकप्रकाशको निर्मलो वादलादिनाऽनाच्छादितो भानुरेव सर्वेषां प्राणिनां सर्वत्रोद्योतं करोति, नान्यः कोऽपि तेजस्वी पदार्थ इति भावः ॥७६ ॥
भाणू य इइ के वुत्ते, केसी गोयममब्बवी।।
तओ केसी बुवंतं तु, गोयमो इणमब्बवी ॥७७॥ तदा केशीमुनिर्गौतमं पृच्छति-हे गौतम ! भानुरिति क उक्तः ? केशीमुनिर्गौतममित्यब्रवीत् । ततः केशीमुनिमिति ब्रुवन्तं गौतम इदमब्रवीत् ॥ ७७ ॥
उग्गओ खीणसंसारो, सव्वन्नू जिणभक्खरो ।
सो करिस्सइ उज्जोयं, सव्वलोगंमि पाणिणं ॥७८ ॥ हे केशीमुने ! क्षीणः संसारो-भवभ्रमणं यस्य स क्षीणसंसार:- क्षयीकृतसंसारः, सर्वज्ञः-सर्वपदार्थवेत्ता, जिनो-रागद्वेषयोविजेता, स भास्करः-सूर्यः सर्वस्मिन् लोकेचतुर्दशरज्ज्वात्मके लोके सर्वेषां प्राणिनामुद्योतं करिष्यति, प्रकाशं करिष्यति ॥ ७८ ॥
साहु गोयम पन्ना ते, छिनो मे संसओ इमो ।
अन्नोवि संसओ मज्झं तं मे कहसु गोयमा ॥ ७९ ॥ अस्या अर्थस्तु पूर्ववत् ॥७९॥ अथ पुनः केशीश्रमणो गौतमं प्रच्छति
सारीरमाणसे दुक्खे, वज्झमाणाण पाणिणं ।
खेमं सिवं अणाबाहं, ठाणं किं मन्नसि मुणी ॥८०॥ हे गौतममुने ! शारीरिकैः शरीरादुत्पनैः, तथा मानसैर्मनस उत्पनैर्दुःखैर्वध्यमानानांपीड्यमानानां प्राणिनां त्वं क्षेम-व्याध्याधिर-हितम्, शिवं-जरोपदवरहितम्, अनाबाधंशत्रुजनाऽभावात्स्वभावेन पीडारहितम्, एतादृशं स्थानं किं मन्यसे? मां वदेरिति शेषः ॥८०॥
अत्थि एगं धुवं ठाणं, लोगग्गंमि दुरारुहं । जत्थ नत्थि जरा मच्चू, वाहिणो वेयणा तहा ॥८१ ॥