________________
६२]
[ उत्तराध्ययनसूत्रे-भाग-२ ___ हे केशीमुने ! लोकाग्रे लोकस्य चतुर्दशरज्ज्वात्मकस्याग्रं लोकाग्रम्, तस्मिन् लोकाग्रे एकं ध्रुवं-निश्चलं स्थानमस्ति । कथंभूतं तत्स्थानं ? दुरारुहं, दुःखेनारुह्यते यस्मिंस्तद् दुरारुहं दुष्प्रापमित्यर्थः, पुनर्यत्र-यस्मिन् स्थाने जरामृत्यू न स्तः, जरामरणे न विद्यते, पुनर्यस्मिन् व्याधयस्तथा वेदना वा वात-पित्त-कफ-श्लेष्मादयो न विद्यन्ते ॥ ८१ ॥
ठाणे य इइ के वुत्ते, केसी गोयममब्बवी।
तओ केसी बुवंतं तु, गोयमो इणमब्बवी ॥८२॥ हे गौतम ! स्थानमिति किमुक्तं ? केशीश्रमणो गौतममित्यब्रवीत् । ततः केशीकुमारमिति ब्रुवन्तं गौतम इदमब्रवीत् ॥८२ ॥
निव्वाणंति अबाहं ति, सिद्धी लोगग्गमेव य। खेमं सिवमणाबाहं, जं चरंति महेसिणो ॥ ८३ ॥ तं ठाणं सासयं वासं, लोयग्गंमि दुरारुहं ।
जं संपत्ता न सोयंति, भवोहंतकरा मुणी ॥८४ ॥ युग्मम् ॥ हे केशीमुने ! तत् शाश्वतं-सदातनं वासं स्थानं लोकाग्रे वर्तते, यत्स्थानं सम्प्राप्ताः सन्तो भवौधान्तकराः-संसारप्रवाहविनाशका मुनयो न शोचन्ते,शोकं न कुर्वन्ति । कीदृशं तत्स्थानं ? दुरारुहम्, दुःखेन तपःसंयमयोगेनारुह्यते-आसाद्यते इति दुरारोहं दुष्प्राप्यमिति द्वितीयगाथया सम्बन्धः । अथ प्रथमगाथाया अर्थः-पुनः कीदृशं तत्स्थानं? यत्स्थानमेभिर्नामभिरुच्यते-कानि तानि नामानि ? निर्वाणमिति, अबाधमिति, सिद्धिरिति, लोकाग्रमेव, च पुनः शिवमिति नामानि, एतादृशैः सार्थकैरभिधानैर्यत्स्थानमुच्यते, तेषां नाम्नामों यथा-निर्वान्ति, सन्तापस्याऽभावात् शीतीभवन्ति जीवा यस्मिन्निति निर्वाणम् । न विद्यते बाधा यस्मिंस्तदबाधं-निर्भयम् । सिद्धयन्ति समस्तकार्याणि भ्रमणाऽभावाद्यस्यामिति सिद्धिः । लोकस्याग्रमग्रभूमिर्लोकाग्रमेव ।क्षेमं क्षेमस्य-शाश्वतसुखस्य कारकत्वात्क्षेमम्। शिवमुपद्रवाऽभावात् । पुनर्यत्स्थानं प्रति महर्षयोऽनाबाधं यथा स्यात्तथा चरन्ति व्रजन्ति सुखेन मुनयः प्राप्नुवन्ति, मुनयो हि चक्रवर्त्यधिकसुखभाजः सन्तो मोक्षं लभन्ते इति भावः ॥८३ ॥८४ ॥ अथ केशीकुमारो मुनिगौतमं स्तौति
साहु गोयम पन्ना ते, छिन्नो मे संसओ इमो।
नमो ते संसयातीत, सव्वसुत्तमहोयही ॥ ८५ ॥ हे गौतम ! 'ते' तव प्रज्ञा साध्वी वर्तते, 'मे' ममायं संशयश्छिन्नः, सन्देहो दूरीकृतः। हे संशयातीत ! हे सन्देहरहित ! हे सर्वसूत्रमहोदधे ! सकलसिद्धान्तसमुद्र ! तुभ्यं नमोनमस्कारोऽस्तु ॥ ८५ ॥