________________
६०]
[ उत्तराध्ययनसूत्रे - भाग - २
हे गौतम ! महौघेऽर्णवे महाप्रभावे समुद्रे नावा इति नौर्विपरिधावति, इतस्ततः परिभ्रमति, यस्यां नौकायां त्वमारूढः सन् कथं पारं गमिष्यसि ? कथं पारं प्राप्स्यसि ॥७०॥ अथ केशीमुनिना प्रश्ने कृते सति गौतमो वदति
जाउ आस्साविणी नावा, न सा पारस्स गामिणी ।
जा निस्साविणी नावा, सा उपारस्स गामिणी ॥ ७१ ॥
हे केशीमुने ! या नौः आश्राविणी-छिद्रसहितास्ति, आश्रवत्यागच्छति पानीयं यस्यां साऽऽश्रावणी, सा नौ: पारस्य गामिनी नास्ति, या निःश्राविणी- निश्छिद्रा नौः, सा तु पारस्य गामिनी ॥ ७१ ॥
अथ केशी पृच्छति
नावा अ इइ का वुत्ता, केसी गोयममब्बवी । तओ केसींबुवंतंतु, गोयमो इणमब्बवी ॥ ७२ ॥
ततः केशीमुनिं प्रति गौतमोऽब्रवीत् ॥ ७२ ॥
सरीरमाहुनावत्ति, जीवो वुच्चइ नाविओ । संसारो अण्णवो वत्तो, जं तरंति महेसिणो ॥ ७३ ॥
हे केशीमुने ! शरीरं नौर्वर्तते, जीवो नाविको नौखेटक उच्यते । संसारोऽर्णवःसमुद्र उक्तः, यं संसारसमुद्रं महर्षयस्तरन्ति । एतावता महर्षयः स्वजीवं तपोऽनुष्ठानक्रियावन्तं नौवाहकं नाविकं कृत्वा चतुर्गतिभ्रमणरूपे भवार्णवे स्वशरीरं धर्माधारकत्वेन नावं कृत्वा पारं प्राप्नुवन्ति, मोक्षं व्रजन्तीति भावः ॥ ७३ ॥
साहु गोयम पन्ना ते, छिन्नो मे संसओ इमो ।
अन्नोवि संसओ मज्झं, तं मे कहसु गोयमा ॥ ७४ ॥
अस्या अर्थस्तु पूर्ववत् ॥ ७४ ॥
अंधयारे तमे घोरे, चिट्ठति पाणिणो बहू |
को करिस्सइ उज्जोयं, सव्वलोगंमि पाणिणं ॥ ७५ ॥
अथ पुनः केशी श्रमणो गौतमं पृच्छति - हे गौतम! अन्धकारे तमसि प्रकाशाभावे बहवः प्राणिनस्तिष्ठन्ति । अन्धकार - तमः शब्दयोर्यद्यप्येक एवार्थस्तथाप्यत्रान्धकारशब्दस्तमसो विशेषणत्वेन प्रतिपादितः । कीदृशे तमसि ? अन्धकारे, अन्धं करोति लोकमित्यन्धकारम्, तस्मिन्नन्धकारे, पुनः कीदृशे तमसि ? घोरे-रौदे भयोत्पादके । हे गौतम! एतादृशे