________________
२३, केशिगौतमीयाख्यमध्ययनम् ]
महाउदगवेगेणं, बुड्डुमाणाण पाणिणं ।
सरणं गईइट्ठा य, दीवं कं मन्नसी मुणी ॥ ६५ ॥
केशी गौतमं प्रति पृच्छति, हे गौतममुने ! महोदकवेगेन महाजलप्रवाहेण बुड्यमानानां - प्लवतां प्राणिनां त्वं द्वीपं कं मन्यसे ? इति प्रश्नः । कीदृशं द्वीपं ? शरणं-रक्षणक्षमम्, पुनः कीदृशं ? गतिमाधारभूमिम्, पुनः कीदृशं ? प्रतिष्ठां - स्थिरावस्थानहेतुम्, द्वीपं - निवासस्थानं जलमध्यवर्ति ॥ ६५ ॥
अत्थि एगो महादीवो, वारिमज्झे महालओ । महाउदगवेगस्स, गई तत्थ न विज्जई ॥ ६६ ॥
हे केशीमुने ! वारिमध्ये - पानीयान्तराले यो 'महालओ' ति महानुच्चैस्त्वेन विस्तीर्णतया वाऽऽलय:- स्थानं यस्य स महालयो विस्तीर्ण एको द्वीपोऽस्ति, द्विर्गता आपो यस्मिन् स द्वीप:, तत्र तस्मिन् द्वीपे महोदकवेगस्य गतिर्न विद्यते, पातालकलशवातैः क्षुभितस्य जलवेगस्य गमनं नास्ति । अपरत्र द्वीपे प्रलयकाले समुद्रजलस्य गतिरस्ति, परं तत्र द्वीपे नास्ति ॥ ६६ ॥
दीवे अ इइ के वुत्ते, केसी गोयममब्बवी ।
तओ केसींबुवंतंतु, गोयमो इणमब्बवी ॥ ६७ ॥
केश गौतमं पृच्छति - हे गौतम! द्वीपमिति किमुक्तं ? इत्युक्तवन्तं केशी श्रमणं प्रति गौतम इदमब्रवीत् ॥ ६७ ॥
जरामरणवेगेणं, बुहुमाणाण पाणिणं ।
धम्म दीवो पट्टा य, गई सरणमुत्तमं ॥ ६८ ॥
[ ५९
शी! जरामरणजलप्रवाहेण बुडतां वहतां प्राणिनां संसारसमुद्रे श्रुतधर्मश्चारित्रधर्मरूपो द्वीपो वर्तते, मुक्तिसुखहेतुधर्मोऽस्तीति भावः । कीदृशः स धर्म: ? प्रतिष्ठानिश्चलं स्थानम्, पुनः कीदृशो धर्म: ? गतिर्विवेकिनामाश्रयणीयः, स धर्म उत्तमं प्रधानं स्थानं शरणमस्तीति भावः ॥ ६८ ॥
साहु गोयम पन्ना ते, छिन्नो मे संसओ इमो ।
अन्नोवि संसओ मज्झं, तं मे कहसु गोयमा ॥ ६९ ॥
अस्या अर्थस्तु पूर्ववत् ॥ ६९ ॥
अण्णवंसि महोहंसि, नावा विपरिधावई । जंसि गोयममारूढो, कहं पारं गमिस्ससि ॥ ७० ॥