________________
५८]
[उत्तराध्ययनसूत्रे-भाग-२ साह गोयम पन्ना ते, छिन्नो मे संसओ इमो।
अनोवि संसओ मज्झं, तं मे कहसु गोयमा॥५९॥ ........... अस्या अर्थस्तु पूर्ववत् ॥५९ ॥
कुप्पहा बहवो लोए, जेहिं नासंति जंतवो ।
अद्धाणे कह वस॒तो, तं न नाससि गोयमा ॥६०॥ हे गौतम ! लोके बहवः कुपथाः - कुमार्गाः सन्ति, यैः कुमार्गर्जन्तवो नश्यन्ति, दुर्गतिवने वजन्तो विलीयन्ते सन्मार्गाच्च्यवन्ते इत्यर्थः । हे गौतम ! त्वमध्वनि वर्तमानः सन् कथं न नश्यसि ? नाशं न प्राप्नोषि ? सत्पथात्त्वं न च्यवसे ? ॥६०॥
जे य मग्गेण गच्छंति, जे य उम्मग्गपट्ठिया ।
ते सव्वे विइया मज्झं, तो न णस्सामिहं मुणी ॥६१॥ हे केशीमुने ! ये भव्यजना मार्गेण वीतरागोपदेशेन गच्छन्ति, च पुनर्येऽभव्या उन्मार्गप्रस्थिता भगवदुपदेशाद्विपरीतं प्रचलितास्ते सर्वे मया विदिताः । भव्याभव्ययोः सन्मार्गाऽसन्मार्गयोर्ज्ञानं मम जातमिति भावः । 'तो' तस्मात्कारणादहं न नश्यामि, अपथपरिज्ञानान्नाशं न प्राप्नोमि ॥६१ ॥
मग्गे अ इइ के वुत्ते, केसी गोयममब्बवी।
तओ केसी बुवंतं तु, गोयमो इणमब्बवी ॥६२॥ अस्या अर्थः पूर्ववत् ॥६२॥
कुप्पवयणपासंडी, सव्वे उम्मग्गपट्ठिया ।
समग्गं तु जिणक्खायं, एस मग्गे हि उत्तमे ॥६३॥ हे केशीमुने ! कुत्सितानि प्रवचनानि कुप्रवचनानि-कुदर्शनानि, तेषु पाखण्डिनः कुप्रवचनपाखण्डिन एकान्तवादिनः, ते सर्वे उन्मार्गे प्रस्थिताः-उन्मार्गगामिनः सन्ति । सन्मार्ग तु पुनर्जिनाख्यातं विद्यते, एष जिनोक्तो मार्गः सर्वमार्गेषूत्तमः, सर्वमार्गेभ्यः प्रधानो विनयमूलत्वादित्यर्थः ॥६३ ॥
साहु गोयम पन्ना ते, छिन्नो मे संसओ इमो ।
अन्नोवि संसओ मझं, तं मे कहसु गोयमा ॥६४॥ अस्या अर्थस्तु पूर्ववत् ॥६४ ॥