SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ २३, केशिगौतमीयाख्यमध्ययनम्] [५७ ताभिरभिहता विध्यापिताः श्रुतधाराभिहताः सन्तो भिन्ना विध्यापिता 'हु' निश्चयेन 'मे' इति मां न दहन्ति, मां न ज्वालयन्ति ॥ ५३॥ साहु गोयम पन्ना ते, छिन्नो मे संसओ इमो। अन्नोवि संसओ मज्झं, तं मे कहसु गोयमा ॥५४॥ अर्थस्तु पूर्ववत् ॥५४॥ 'अइसाहसिओ भीमो, दुट्ठस्सो परिधावई। जंसि गोयममारूढो, कहं तेण न हिरसि ॥ ५५ ॥ .. हे गौतम ! अतिसाहसिको दुष्टाश्वः परिधावति, यस्मिन् दुष्टाश्वे हे गौतम ! त्वमारूढोऽसि, तेन दुष्टाश्वेन कथं न हियसे ? कथमुन्मार्ग न नीयसे ? कथंभूतः स दुष्टाश्वः ? सहसाऽविचार्य प्रवर्तते इति साहसिकोऽविचारिताध्वगामी, पुनः कीदृशो दुष्टाश्वः ? भीमोभयानकः ॥५५॥ पहावंतं निगिहामि, सुयरस्सीसमाहियं । न मे गच्छई उम्मग्गं, मग्गं च पडिवज्जई ॥५६॥ . अथ गौतमो वदति-हे केशीमुने ! तं दुष्टाश्वं प्रधावन्तमुन्मार्ग वजन्तमहं निगृह्णामिवशीकरोमि । कीदृशं तं दुष्टाश्वं ? श्रुतरश्मिसमाहितं सिद्धान्तवल्गया बद्धम्, यतः स 'मे' मम दुष्टाश्व उन्मार्गं न गच्छति, स दुष्टाश्वो मार्गं च प्रतिपद्यतेऽङ्गीकरोति ॥ ५६ ॥ अस्से इइ के वुत्ते, केसी गोयममब्बवी । तओ केसी बुवंतं तु, गोयमो इणमब्बवी ॥५७ ॥ केशी पृच्छति, हे गौतम ! अश्व इति क उक्तः ? तत इति बुवन्तं केशीमुनि गौतम इदमब्रवीत् ॥ ५७ ॥ मणो साहसिओ भीमो, दुट्ठस्सो परिधावई। .. तं सम्मं निगिहामि, धम्मसिक्खाय कंथगं ॥५८ ॥ हे केशीमुने ! मनो दुष्टाश्वः साहसिकः परिधावति, इतस्तत: परिभ्रमति । तं मनोदुष्टाश्वं धर्मशिक्षायै-धर्माभ्यासनिमित्तं कन्थकमिव-जात्याश्वमिव निगृह्णामि-वशीकरोमि, यथा जात्याश्वो वशीक्रियते, तथा मनोदुष्टाश्वं वशीकरोमि ॥५८॥ . १ अयं साहसिओ-अन्यसंस्करणे, तत्र वृत्ति-"अयं प्रत्यक्षः, सहसा-असमीक्ष्य प्रवर्तत इति साहसिको भीमः,"-बृहद्वृत्त्याम् प.५०७॥
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy