________________
५६]
[उत्तराध्ययनसूत्रे-भाग-२ _हे केशीमुने ! भवे-संसारे तृष्णा-लोभप्रकृतिलता-वल्ल्युक्ता, कीदृशी सा? भीमा भयदायिनी, पुनः कीदृशी ? भीमफलोदया, भीमो दुःखकारणानां फलानां दुष्टकर्मणामुदयो विपाको यस्याः सा भीमफलोदया, दुःखदायककर्मफलहेतुभूता, लोभमूलानि पापानीत्युक्तत्वात्, तां तृष्णावल्ली यथान्यायमुद्धृत्याहं विहारं करोमि ॥ ४८ ॥
साहु गोयम पन्ना ते, छिन्नो मे संसओ इमो।
अन्नोवि संसओ मज्झं, तं मे कहसु गोयमा ॥४९॥ अर्थस्तु पूर्ववत् ॥ ४९ ॥
संपज्जलिया घोरा, अग्गी चिट्ठइ गोयमा ।
जे डहति सरीरत्था, कहं विज्झाविया तुमे ॥५०॥ हे गौतम ! संप्रज्वलिता-जाज्वल्यमाना घोरा-भीषणा अग्नयः संसारे तिष्ठन्ति, येऽग्नयः शरीरस्थान् प्राणिनो-जीवान् दहन्ति-ज्वालयन्ति । तेऽग्नयस्त्वया कथं विध्यापिताः ? कथं शमिता इत्यर्थः ॥ ५० ॥
'महामेहप्पभूयाओ, गिज्झा वारिजलुत्तमं ।
सिंचामि सययं ते उ, सित्ता नेव डहति मे ॥५१॥ हे केशी मुने ! महामेघप्रभूतान्महामेघसमुत्पन्नादर्थान्महानदीप्रवाहाद्वारि-पानीयं गृहीत्वा तानग्नीन् सततं-निरन्तरं सिञ्चामि । तेऽग्नयो जलेन सिक्ताः मां नैव दहन्ति । कथंभूतं तद्वारि ? 'जलुत्तमं' जलोत्तमम्, सर्वेषु जलेषु मेघोदकस्यैवोत्तमत्वात् ॥५१ ॥
अग्गी अ इइ के वुत्ते, केसी गोयममब्बवी।
'तओ केसी बुवंतं तु, गोयमो इणमब्बवी ॥५२॥ तदा केशीश्रमणो गौतममिदमब्रवीत्-हे गौतम ! तेऽग्नय इति के उक्ताः ? इत्युक्तवन्तं केशीकुमारमुनि गौतम इदमब्रवीत् ॥५२॥
कसाया अग्गिणो वुत्ता, सुयसीलतवो जलं ।
सुयधाराभिहया संता, भिन्ना हुन डहंति मे ॥५३ ॥ हे केशीमुने ! कषाया अग्नय उक्ताः, श्रुतं शीलं तपश्च जलं वर्तते, तत्र श्रुतं च श्रुतमध्योपदेशः, महामेघस्तीर्थङ्करः, महाश्रोतश्च तदुत्पन्न आगमः, ते कषायाग्नयः श्रुतधाराभिहताः, श्रुतस्यागमवाक्यस्य, उपलक्षणत्वाच्छीलतपसोरपि, धारा इव धाराः, १ महामेहप्पसूयाओ-अन्यसंस्करणे, तत्र वृत्तिरपि एवं-"महामेघात् प्रसूतम्-उत्पन्नं महामेघप्रसूतं तस्मात् ॥" २ केसि एवं बुवंतं तु-अन्यसंस्करणे ॥ एवमग्रेऽपि ॥