________________
२३, केशिगौतमीयाख्यमध्ययनम् ]
[५५ हे केशीमुने ! जीवानां रागद्वेषादयस्तीवाः कठोराश्छेत्तुमशक्याः स्नेहपाशा मोहपाशा उक्ताः, कीदृशास्ते स्नेहपाशा: ? भयङ्करा भयं कुर्वन्तीति भयङ्कराः, रागद्वेषावादौ येषां ते रागद्वेषादयः, रागद्वेषमोहा इव जीवानां भयदाः, तान् स्नेहपाशान् यथान्यायं वीतरागोक्तोपदेशेन छित्वा यथाक्रमं साध्वाचारानुक्रमेणाहं विहरामि, साधुमार्गे विचरामि ॥ ४३ ॥
साहु गोयम पन्ना ते, छिन्नो मे संसओ इमो ।
अन्नोवि संसओ मझं, तं मे कहसु गोयमा ॥४४॥ अस्या अर्थस्तु पूर्ववत् ॥ ४४ ॥
अंतोहिययसभूया, लया चिट्ठइ गोयमा ।
फलेइ विसभक्खीणि, सा उ उद्धरिया कहं ॥४५॥ हे गौतम ! सा लता-सा वल्ली त्वया कथं-केन प्रकारेणोद्धृतोत्पाटिता? सा का? या लता अन्त:हृदयसम्भूता सती तिष्ठति । अन्तःहृदयं मन उच्यते, एतावता मनस्युद्गता, पुनर्या वल्ली विषभक्ष्याणि फलानि फलति । विषवद्भक्ष्याणि विषभक्ष्याणि विषफलानि निष्पादयति, पर्यन्तदारुणतया विषोपमानि फलानि यस्या लताया भवन्ति ॥ ४५ ॥
तं लयं सव्वसो छित्ता, उद्धरित्ता समूलियं ।
विहरामि जहानायं, मुक्कोमि विसभक्खणा ॥४६॥ गौतमो वदति-हे मुने ! तां लतां सर्वतः सर्वप्रकारेण छित्वा-खण्डीकृत्य, पुनः समूलिकां मूलसहितामुद्धृत्योत्पाट्य यथान्यायं साधुमार्गे विहरामि । ततोऽहं विषभक्षणाद्विषोपमफलाहारान्मुक्तोऽस्मि ॥ ४६ ॥
लया य इइ का वुत्ता, केसी गोयममब्बवी ।
तओ केसी बुवंतं तु, गोयमो इणमब्बवी ॥४७॥ हे गौतम ! लता इति का उक्ता ? इति पृष्टे सति, बुवन्तं केशीमुनि गौतम इदमब्रवीत् ॥ ४७ ॥ --
भवतण्हा लया वुत्ता, भीमा भीमफलोदया।
तमुद्धित्तु जहानायं, विहरामि महामुणी ॥ ४८ ॥ १ विसभक्खणं-अन्यसंस्करणे ॥ २ केसि एव बुवंत-अन्यसंस्करणे ॥ ३ तमुच्छित्तु-अन्यसंस्करणे । तमुद्धरितु अपि ॥