________________
२३, केशिगौतमीयाख्यमध्ययनम् ]
[ ५१
कर्तुमशक्ताः। तु पुनर्मध्यमगानां द्वाविंशतितीर्थकृत्साधूनामजितनाथादारभ्य पार्श्वनाथपर्यन्ततीर्थङ्करमुनीनां कल्पः - साध्वाचारः सुविशोध्यः सुपालकश्च साध्वाचारः सुखेन निर्मलीकर्तव्यः, पुनः सुखेन पाल्यः । द्वाविंशतितीर्थकृत्साधवो हि ऋजुप्राज्ञाः, स्तोकेनोक्तेन बहुज्ञाः, तस्माच्चातुर्व्रतिको धर्म उद्दिष्टः, मैथुनं हि परिग्रहे एव गण्यते ।
आदीश्वरस्य साधूनां यदि पञ्चमहाव्रतानि - प्राणातिपातविरति मृषावादविरतिस्तेयविरति-मैथुनविरति परिग्रहविरतिरूपाणि पृथक् पृथक् कथ्यन्ते, तदा ते ऋजुजडा: पञ्चमहाव्रतानि पालयन्ति, नो चेते व्रतभङ्गं कुर्वन्ति, ते तु यावन्मात्रमाचारं शृण्वन्ति तावन्मात्रमेव कुर्वन्ति, अधिकं स्वबुद्धया किमपि न विदन्ति । महावीरस्य साधवस्तु चेत्पञ्चमहाव्रतानि श्रृण्वन्ति तदैव पालयन्ति, तेऽपि वक्रा जडाश्च चेच्चत्वारि व्रतानि शृण्वन्ति तदा चत्वार्येव पालयन्ति, न तु पञ्चमं पालयन्ति । वक्रजडा हि कदाग्रहग्रस्ता अतीवहठधारिणः । द्वाविंशतितीर्थकृत्साधव ऋजवः प्राज्ञाश्च चत्वारि व्रतानि श्रुत्वा सुबुद्धित्वात् पञ्चापि व्रतानि पालयन्ति । तस्माच्चत्वारि व्रतानि प्रोक्तानि, तस्माद्धर्मो द्विविधः कृतः, चातुर्व्रतकः पञ्चव्रतात्मकश्च । स्वस्ववारकपुरुषाणामभिप्रायं विज्ञाय तीर्थकरैर्धर्म उपदिष्ट इति भावः ॥ २७ ॥
साहु गोयम पन्ना ते, छिन्नो मे संसओ इमो ।
अन्नोवि संसओ मज्झं, तं मे कहसु गोयमा ॥ २८ ॥
इति श्रुत्वा केशीकुमारः श्रमणो वदति - हे गौतम ! 'ते' तव साधुप्रज्ञास्ति, सम्यग्बुद्धिरस्ति, 'मे' ममायं संशयस्त्वया छिन्नो- दूरीकृतः । अन्योऽपि मम संशयोऽस्ति, 'तमि' ति तस्योत्तरं हे गौतम ! त्वं कथयस्व ? इदं वचनं हि शिष्यापेक्षम्, न तु तस्य केशिमुनेर्ज्ञानत्रयवत एवंविधसंशयसम्भवः ॥ २८ ॥
अचेलगो य जो धम्मो, जो इमो संतरुत्तरो ।
देसिओ वद्धमाणेण, पांसेण य महाजसा ॥ २९ ॥
एगकज्जपवन्नाणं, विसेसे किं नु कारणं ।
लिंगे दुविहे मेहावी, कहं विपच्चओ न ते ॥ ३० ॥ युग्मम् ॥
वर्धमानेन चतुर्विंशतितमतीर्थङ्करेण यो धर्मोऽचेलकः प्रमाणोपेतजीर्णप्रायधवलवस्त्रधारणात्मकः साध्वाचारो दिष्टः, च पुनः पार्श्वेन महायशसा त्रयोविंशतितमतीर्थकरेण योऽयं धर्मः सान्तरुत्तरः पञ्चवर्णबहुमूल्यप्रमाणरहितवस्त्रधारणात्मकः साध्वाचारः प्रदर्शितः ।
मेधाविन् ! एककार्यप्रतिपन्नयोः श्रीवीरपार्श्वयोर्विशेषे-भेदे किं कारणं ? को हेतुः ? हे गौतम ! द्विविधे लिङ्गे द्विप्रकारके साधुवेषे 'ते' तव कथं विप्रत्ययो नोत्पद्यते ? कथं सन्देहो न जायते ? उभावपि तीर्थकरौ मोक्षकार्यसाधकौ, कथं ताभ्यां वेषभेदः प्रकाशितः ? इति कथं तवायं संशयो न भवति ? ॥ ३० ॥