________________
५२]
[ उत्तराध्ययनसूत्रे - भाग - २
केसि एवं बुवंताणं, गोयमो इणमब्बवी । विन्नाणेण समागम्म, धम्मसाहणमिच्छ्रियं ॥ ३१ ॥
तु पुनर्गौतम एवं ब्रुवाणं केशीकुमारं मुनिमिदमब्रवीत् - हे केशीमुने ! तीर्थकरैविज्ञानेन विशिष्टज्ञानेन केवलज्ञानेन समागम्य यद्यद्यस्योचितं तत्तथैव ज्ञात्वा धर्मसाधनंधर्मोपकरणं वर्षाकल्पादि, इदमृजुप्राज्ञयोग्यं, इदं च वक्रजडयोग्यमितीप्सितमनुमतमिष्टं कथितमिति यावत् । यतो हि वीरशिष्याणां रक्तवर्णादिवस्त्रानुज्ञाते वक्रजडत्वेन रञ्जनादिषु प्रवृत्तिर्दुर्निवारैव स्यात् । पार्श्वनाथशिष्यास्तु ऋजुप्राज्ञत्वेन शरीराच्छादनमात्रेण प्रयोजनं जानन्ति न च ते किञ्चित्कदाग्रहं कुर्वन्ति ॥ ३१ ॥
पच्चयत्थं च लोगस्स, नाणाविहविगप्पणं ।
जत्तत्थं गहणत्थं च, लोगे लिंगप्पओयणं ॥ ३२ ॥
हे केशीमुने ! नानाविधविकल्पनं नानाप्रकारोपकरणपरिकल्पनमनेकप्रकारोपकरणचतुर्दशोपकरणधारणं वर्षाकल्पादिकं च यत्पुनर्लोके लिङ्गस्य प्रयोजनम्, साधुवेषस्य प्रवर्तनं यत्तीर्थकरैरुक्तं तल्लोकस्य प्रत्यायार्थम्, लोकस्य गृहस्थस्य प्रत्ययाय, यतो हि साधुवेषं लुञ्चनाद्याचारं च दृष्ट्वाऽमी व्रतिन इति प्रतीतिरुत्पद्यते । अन्यथा विडम्बकाः पाखण्डिनोऽपि पूजाद्यर्थं वयं व्रतिन इति ब्रुवीरन्, ततश्च व्रतिष्वप्रतीतिः स्यात्, अतो नानाविधविकल्पनं लिङ्गप्रयोजनं च पुनर्यात्रार्थं संयमस्य निर्वाहार्थम् । यतो हि वर्षाकल्पादिकं विना वृष्ट्यादिना संयमनिर्वाहो न स्यात् तेन वर्षाकल्पादिकं वर्षर्तुयोग्याचारोपकरणधारणं च दर्शितम् । पुनर्ग्रहणं ज्ञानम्, तदर्थमिति ग्रहणार्थं ज्ञानायेत्यर्थः । यदि कदाचिच्चित्तविप्लवोत्पत्तिः स्यात्, परीषहोत्पत्तौ संयमे ऽरतिरुत्पद्यते, तदा साधुवेषधारी मनस्येतादृशं ज्ञानं कुर्यात् यतोऽहं साधोर्वेषधार्यस्मि, यतो 'धम्मं रक्खइ वेसो' इत्युक्तत्वात् । इत्यादिहेतोर्लिङ्गधारणं ज्ञेयम् ॥ ३२ ॥
पुनगौतमो वदति ।
अह भवे पइन्नाओ, मोक्खसब्भूयसाहणा ।
नाणं च दंसणं चेव, चरित्तं चेव निच्छए ॥ ३३ ॥
हे केशीकुमारश्रमण ! निश्चयनये मोक्षसद्भूतसाधनानि ज्ञानदर्शनचारित्राणि सन्ति । मोक्षरूपस्य कार्यस्य ज्ञानदर्शनचारित्राणि सत्यानि साधनानि निश्चयनये वर्तन्ते । अथ प्रतिज्ञा भवेत्, श्रीपार्श्वनाथमहावीरयोरियमेकैव प्रतिज्ञा भवेत् । श्रीपार्श्वनाथस्यापि मोक्षस्य साधनानि ज्ञानदर्शनचारित्राण्येव, श्रीवीरस्यापि मोक्षस्य साधनानि ज्ञानदर्शनचारित्राण्येव, श्रीपार्श्ववीरयोरेषा प्रतिज्ञा भिन्ना नास्तीत्यर्थः । वेषस्यान्तरंऋजुजडवक्रजडाद्यर्थम्, मोक्षस्य