________________
५० ]
[ उत्तराध्ययनसूत्रे -भाग-२
हे गौतम! पार्श्वेन महामुनिना तीर्थकरेण यश्चातुर्यामश्चातुर्व्रतिकोऽयमस्माकं धर्म उद्दिष्टः, पुनर्योऽयं धर्मो वर्धमानेन पञ्चशिक्षिकः पञ्चमहाव्रतात्मको दिष्टः कथितः ॥ २३ ॥ एककार्ये मोक्षसाधनरूपे कार्ये प्रपन्नयोः श्रीपार्श्वमहावीरयोर्विशेषे भेद्रे किं कारणं ? हे मेधाविन् ! द्विविधे धर्मे तव कथं विप्रत्ययः- संशयो न भवति, यतो द्वावपि तीर्थङ्करौ, द्वावपि मोक्षकार्यसाधने प्रवृत्तौ कथमनयोर्भेद इति हेतोस्तव मनसि कथं विप्रत्ययो न भवति ? सन्देहो न भवति ? ॥ २४ ॥
तओ केसिंबुवंतंतु, गोयमो इणमब्बवी ।
पणा समिक्ख धम्मं तत्तं तत्थ विणिच्छ्यं ॥ २५ ॥
>
ततोऽनन्तरं केशीकुमारश्रमणं ब्रुवन्तं कथयन्तं गौतम इदमब्रवीत् - हे केशीकुमारश्रमण ! प्रज्ञा-बुद्धिर्धर्मतत्त्वं धर्मस्य परमार्थं पश्यति, धर्मतत्त्वं बुद्ध्यैव विलोक्यते, न तु चर्मचक्षुषा धर्मतत्त्वं विलोक्यते । सूक्ष्मं धर्मं सुधीर्वेत्तीति वचनात् । कीदृशं धर्मतत्त्वं ? तत्त्वविनिश्चयम्, तत्त्वानां जीवादीनां विशेषेण निश्चयो यस्मिंस्तत्तत्वविनिश्चयम् । केवलं धर्मतत्त्वस्य श्रवणमात्रेण निश्चयो न भवति, किन्तु प्रज्ञावशादेव धर्मतत्त्वस्य निश्चयः स्यादिति भावः ॥ २५ ॥
पुरिमा उज्जुजडा उ, वक्कजडा य पच्छिमा ।
मज्झिमा उज्जुपन्ना उ, तेण धम्मो दुहा कओ ॥ २६ ॥
हे केशीकुमारश्रमण ! पूरिमाः पूर्वे प्रथमतीर्थकृत्साधव आदीश्वरस्य मुनय ऋजुजडा:, ऋजवश्च ते जडाश्च ऋजुजडा बभूवुरिति शेषः । शिक्षाग्रहणतत्परा ऋजवः, दुष्प्रतिपाद्यतया जडा मूर्खा:, तुशब्दो यस्मादर्थे । पश्चिमाः पश्चिमतीर्थकृत्साधवो महावीरस्य मुनयो वक्रजडाः, वक्राश्च ते जडाश्च वक्रजडाः, वक्राः प्रतिबोधसमये वक्रज्ञानाः, जडा: कदाग्रहपराः, तादृशा बभूवुः । तु पुनर्मध्यमा मध्यमतीर्थङ्कराणां मुनयो द्वाविंशतितीर्थकृत्साधव ऋजुप्राज्ञा बभूवुः, ऋजवश्च ते प्राज्ञाश्च ऋजुप्राज्ञाः, ऋजवः- शिक्षाग्रहणतत्पराः, प्राज्ञाः प्रकृष्टबुद्धयः, तेन कारणेन हे मुने ! धर्मो द्विधा कृतः ॥ २६ ॥
पुरिमाण दुव्विसोज्झो, 'चरिमाणं दुरणुपालओ चेव ।
कप्पो मज्झिमगाणं तु, सुविसोज्झो सुपालओ ॥ २७ ॥
'पुरिमाणं' इति प्रथमतीर्थकृत्साधूनां कल्पः - साध्वाचारो दुर्विशोध्यो- दुःखेन निर्मलीकरणीयः, आदीश्वरस्य साधव ऋजुजडाः, ऋजुजडत्वात्कल्पनीयाकल्पनीयज्ञानविकलाः । पुनश्चरमाणां चरमतीर्थकृत्साधूनां दुरनुपालको दुःखेनानुपाल्यते इति दुरनुपालकः, महावीरस्य साधवो वक्रजडाः, वक्रत्वाद्विकल्पबहुलत्वात्साध्वाचारं जानन्तोऽपि १ चेव - अन्यसंस्करणे नास्ति ॥