________________
२३, केशिगौतमीयाख्यमध्ययनम् ]
केसीकुमारसमणे, गोयमे य महाजसे ।
उभओ निसन्ना सोहंति, चंदसूरसमप्पभा ॥ १८ ॥
तदा केशीकुमारश्रमणश्च पुनर्गौतमो महायशाः, एतावुभौ तत्र तिन्दुकोद्याने निषण्णावुपविष्टौ शोभेते - विराजेते । कथंभूतौ तौ ? चन्द्रादित्यसमप्रभौ ॥ १८ ॥ समागया बहु तत्थ, पासंडा कोउगा मिया ।
गिहत्थाणं अणेगाओ, सहस्सीओ समागया ॥ १९ ॥
[ ४९
तत्र तस्मिस्तिन्दुकोद्याने बहवः पाखण्डा अन्यदर्शनिनः, परिव्राजकादयः समागताः, कीदृशास्ते पाखण्डाः ? कौतुकान्मृगा - आश्चर्यान्मृगा इवाऽज्ञानिनः । तु पुनर्गुहस्थानामनेकलोकानां सहस्रं समागतम्, अनेका-प्रचुरा लोकानां सहस्त्रीति आर्षत्वात्, समागता तत्र सम्प्राप्ता ॥ १९ ॥
देवदाणवगंधव्वा, जक्खरक्खसकिन्नरा ।
अदिस्साणं च भूयाणं, आसी तत्थ समागमो ॥ २० ॥
तत्र - तस्मिन् प्रदेशे देव-दानव - गान्धर्वा, यक्ष-राक्षस- किन्नराः समागता इति शेषः । च पुनस्तत्राऽदृश्यानां भूतानां केलीकिलव्यन्तरविशेषाणां समागमः सङ्गम आसीत् ॥ २० ॥ पुच्छामि ते महाभाग, केसी गोयममब्बवी ।
तओ केसीं बुवंतंतु, गोयमो इणमब्बवी ॥ २१ ॥
तयोर्जल्पमाह - तदा केशी गौतममब्रवीत्, किमब्रवीदित्याह - हे महाभाग ! 'ते' त्वामहं पृच्छामि, यदा केशीकुमारेणेत्युक्तं तदा केशीकुमारभ्रमणं ब्रुवन्तमिदमब्रवीत् ॥ २१ ॥ पुच्छ भंते जहिच्छं ते, केसिं गोयममब्बवी ।
तओ केसी अणुनाए, गोयमं इणमब्बवी ॥ २२ ॥
गौतम वदति - हे भदन्त ! हे पूज्य ! ते तव यथेच्छं यत्तव चेतस्यवभासते तत्त्वं पृच्छ, मम प्रश्नं कुरु, इति केशीकुमारं प्रति गौतमोऽब्रवीत् । 'गौतमं ' इति प्राकृतत्वात्प्रथमास्थाने द्वितीया । ततो गौतमवाक्यादनन्तरं केशीकुमारो गौतमेनानुज्ञातः सन् - गौतमेन दत्ताज्ञः सन् गौतमं प्रतीदं वक्ष्यमाणं वचनमब्रवीत् ॥ २२ ॥
चाज्जामय जो धम्मो, जो इमो पंचसिक्खिओ । देसिओ वद्धमाणेण, पासेण य महामुनी ॥ २३ ॥ एगकज्जपवन्नाणं, विसेसे किं नु कारणं । धम्मे दुविहे मेहावी, कहं विपच्चओ न ते ॥ २४ ॥ युग्मम् ॥