SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ४८ ] अह ते तत्थ सीसाणं, विन्नाय पवियक्कियं । समागमे कयमई, उभओ केसिगोयमा ॥ १४॥ [ उत्तराध्ययनसूत्रे - भाग - २ अथानन्तरं तयोरुभयोस्तत्र श्रावस्त्यामागमनानन्तरं केशिगौतमौ तावुभौ समागमे 'कृतमती अभूताम् । किं कृत्वा ? शिष्याणां क्षुल्लकानां प्रवितर्कितं विज्ञाय, विकल्पं ज्ञात्वा ॥ १४ ॥ गोयमे पडिरूवन्नू, सिस्ससंघसमाउले । जिट्ठे कुलमविक्खंतो, हिंदुयं वणमागओ ॥ १५ ॥ गौतमस्तिन्दुकं वनमागतः, केशीकुमाराधिष्ठिते वने आगतः । कीदृशो गौतमः ? प्रतिरूपज्ञः प्रतिरूपो यथोचितविनयस्तं जानातीति प्रतिरूपज्ञः पुनः कीदृश: ? शिष्यसङ्घसमाकुलः शिष्यवृन्दसहितः, गौतमः किं कुर्वाणः ? ज्येष्ठं कुलमपेक्षमाणो ज्येष्ठंवृद्धं प्रथमभवनात् पार्श्वनाथस्य कुलं सन्तानं विचारयन्नित्यर्थः ॥ १५॥ - केसीकुमारसमणे, गोयमं दिस्समागयं । पडिरूवं पडिवत्ति, सम्मं च पडिवज्ज़ई ॥ १६ ॥ केशीकुमारश्रमणो गौतममागतं दृष्ट्वा सम्यक् प्रतिरूपामागतानां योग्यां प्रतिपत्तिसेवां सम्प्रतिपद्यते सम्यक्करोतीत्यर्थः ॥ १६ ॥ पलालं फासूयं तत्थ, पंचमं कुसतणाणि य । गोयमस्स निसिज्जा, खिप्पं संपणामए ॥ १७॥ तत्र तिन्दुकोद्याने एव केशीकुमारश्रमणो गौतमस्य निषद्यायै- गौतमस्योपवेशनार्थं प्रासुकं-निर्बीजं चतुर्विधं पलालम्, पञ्चमानि कुशतृणानि, चकारादन्यान्यपि साधुयोग्यानि तृणानि 'संपणामए' समर्पयति । पञ्चमत्वं हि कुशतृणानां पलालभेदेन, चतुर्विधं पलालं यथा । 'तणपणगं पन्नत्तं, जिणेहि कम्मट्ठगंठिमहणेहिं । साली १ वीही २ कोद्दव ३, रालग ४ रने तणा ५ पंच ॥ १ ॥ इति वचनात् । चत्वारि पलालानि साधुप्रस्तरणयोग्यानि, पञ्चमं हि दर्भादि प्रासुकं तृणं वर्तते । तत् केशीकुमारश्रमणेन गौतमस्य प्रस्तरणार्थं प्रदत्तमिति भावः ॥ १७ ॥ १ बुद्धिवाळा २ तृणपञ्चकं प्रज्ञप्तं, जिनैः कर्माष्टकग्रन्थिमथनैः । शाली व्रीहिः कोद्रवो रालको ऽरण्यतृणानि पञ्च ॥ १ ॥
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy