________________
२३, केशिगौतमीयाख्यमध्ययनम् ]
[४३ माता वा एतांश्चतुर्दश स्वप्नान् पश्यति । ततोऽस्याः कुक्षौ तीर्थकरश्चक्री वा समुत्पन्नोऽस्तीति स्वप्नानुसारेण इदं च तेषां वचः श्रुत्वाऽऽनन्दातिरेकेण पुलकिततनुर्भूपतिस्तानतीवसत्कारपूर्वं विसर्जितवान्, वामादेवी सुखंसुखेन गर्भमुद्वहति । क्रमेण पूर्णेषु मासेषु शुभवेलायां भगवान् जातः । षट्पञ्चाशद्दिक्कुमारीभिर्जन्ममहोत्सवः पूर्व कृतः । ततः स्वासनकम्पाद्विज्ञातभगवज्जन्मभिः शरैर्मेरुशिरसि जन्माभिषेकः कृतः।
प्रभाते चाश्वसेनोऽपि नगरान्तर्दशाहिकोत्सवं कृतवान् । अस्मिन् गर्भे स्थिते भगवति जनन्या पाश्र्वे गच्छन् सर्पो रात्रौ दृष्टः, ततोऽस्य पार्श्व इति नाम कृतम् । ततः कल्पतरुवज्जनानन्दकः स भगवान् वृद्धि प्राप, अष्टवार्षिकश्च भगवान् सर्वकलाकुशलो बभूव । अथ भगवान् सर्वमनोहरं यौवनं प्राप । पित्रा च तदानीं प्रभावती कन्यां परिणायितः, भगवान् तया समं विषयसुखं बुभुजे । अन्यदा भगवता प्रासादोपरि गवाक्षजालस्थेन दिगवलोकनं कुर्वता दृष्टो नगरलोकः प्रवरकुसुमहस्तो बहिर्गच्छन् । पृष्टं च भगवता कस्यचित्पार्श्ववर्तिनः, भो किमद्य कश्चित्पर्वोत्सवोऽस्ति ? येनैवं जनः पुष्पहस्तो बहिर्गच्छन्नस्ति । तेन पुरुषेणोक्तमद्य कोऽपि पर्वोत्सवो नास्ति, किन्तु कमठो नाम महातपस्वी पुरीबहिः समागतोऽस्ति, तद्वन्दनार्थं प्रस्थितोऽयं जनः ।
ततस्तद्वचनमाकर्ण्य जातकौतुकविशेषो भगवांस्तत्र गतः पञ्चाग्नितपः कुर्वाणं कमठं दृष्टवान् । त्रिज्ञानवता भगवता ज्ञात एकस्मिन्नग्निकुण्डे प्रक्षिप्तातीवमहत्काष्ठमध्ये प्रज्वलन् सर्पः । उत्पन्नपरमकरुणेन भगवता भणितमहो कष्टमज्ञानम्, यदीदृशेऽपि तपसि क्रियमाणे दया न ज्ञायते । ततः कमठेन भणितम्-राजपुत्रास्तु कुञ्जरतुरगखेलनमेव जानन्ति, धर्मं तु मुनय एव विदन्तीति । ततो भगवतैकस्य स्वपुरुषस्यैवमादिष्टम्, अरे ! इदमग्निमध्ये प्रक्षिप्त काष्ठं कुठारेण द्विधा कुरु । तेन पुरुषेण तत्काष्ठं द्विधा कृतं, तत्र दृष्टो दह्यमानः सर्पः, तस्य भगवता स्वपुरुषवदनेन पञ्चपरमेष्ठिनमस्काराः प्रदापिताः । नागोऽपि तत्प्रभावान्मृत्वा समुत्पन्नो नागलोके धरणेन्द्रो नागराजा । लोकैश्चाहो ! भगवतो ज्ञानशक्तिरिति भणद्भिर्महान् सत्कारः कृतः । ततो विलक्षीभूतः कमठपरिव्राजको गाढमज्ञानतपः कृत्वा मेघकुमारनिकायमध्ये समुत्पन्नो मेघमालीनामभवनवासी देवः ।।
अन्यदा सुखेन तिष्ठतो भगवतो वसन्तसमयः समागतः । तत् ज्ञापनार्थमुद्यानपालेन सहकारमञ्जरी भगवतः समर्पिता । भगवता भणितम्-भो ! किमेतत् ? स आह भगवान् ! बहुविक्रीडानिवासो वसन्तसमयः प्राप्तः । ततो मित्रप्रेरितः श्रीपार्श्वकुमारो वसन्तक्रीडानिमित्तं बहुजनपरिवारसमन्वितो यानारूढो गतो नन्दनं वनम्, तत्र यानात्समुत्तीर्य स निषण्णो नन्दनवनप्रासादमध्यस्थितकनकमयसिंहासने, अतिरमणीयं नन्दनवनं सर्वतः पश्यन्, भित्तिस्थं परमरम्यं चित्रं दृष्ट्वा अहो ! किमत्र लिखितं ज्ञातमिति सम्यग् निरूपयता भगवता दृष्टमरिष्टनेमिचरित्रम्। १ दशानां अह्नाम् समाहारः इति दशाहः दशाहे भव इति दशाहिकः ।