________________
४२ ]
[ उत्तराध्ययनसूत्रे - भाग - २ तपोविधानेन बहुलब्धिसम्पन्नोऽसौ गतः सुकच्छविजयम् । तत्राऽप्रतिबद्धविहारेण विहरन् स सम्प्राप्तो ज्वलनगिरिसमीपम् । दिने चास्तमिते तत्रैव कायोत्सर्गेण स्थितः प्रभाते ततश्चलितोऽव्यां प्रविष्टः ।
"
इतश्च स महोरगनारकः पञ्चमपृथिवीत उद्धृत्य कियन्तं संसारं भ्रान्त्वा तस्यैव ज्वलनगिरेः समीपे भीमाटव्यां जातो वनेचरश्चाण्डालः । तेनाखेटकनिमित्तं निर्गच्छता दृष्टः प्रथमं स साधुः, ततः पूर्वभववैरवशतोऽपशकुनोऽयमिति कृत्वा बाणेन विद्धः, न विधुरीकृतवेदनो विधिना मृत्वा स वज्रनाभो मुनिर्मध्यग्रैवेयके ललिताङ्गो नाम देवो जातः । सोऽपि चाण्डालवनेचरस्तं विपन्नं महामुनिं दृष्ट्वाऽहो ! अहं महाधनुर्धर इति मन्यमानो निकाचितक्रूरकर्मा कालेन मृत्वा सप्तमे नरके नारकत्वेन समुत्पन्नः ।
वज्रनाभदेवस्ततश्च्युत इहैव जम्बूद्वीपे पूर्वविदेहे पुराणपुरे कुशलबाहुराज्ञः सुदर्शनादेव्याः कनकप्रभो नाम पुत्रो जातः, स च क्रमेण चक्रवर्ती जातः । अन्यदा प्रासादोपरि संस्थितेन तेनाकाशे निर्गच्छन् देवसङ्घातो दृष्टः । तद्दर्शनादेव विज्ञातजगन्नाथतीर्थकरागमः स्वयं निर्गतस्तद्वन्दनार्थम् । वन्दित्वा च तत्रोपविष्टस्य तस्य पुरतो भगवता देशना कृता । तां च श्रुत्वा दृष्टश्चक्रवर्ती वन्दित्वा स्वनगर्यां प्रविष्टः । अन्यदा स कनकप्रभनामा चक्रवर्ती तां तीर्थङ्करदेशनां भावयन् जातजातिस्मरणः पूर्वभवान् दृष्ट्वा भवविरक्तचित्तः प्रव्रजितः । स क्रमेण विहरन् क्षीरवनाटव्यां क्षीरपर्वते सूर्याभिमुखं कायोत्सर्गेण स्थितः ।
इतश्च स चाण्डालवनेचरजीवस्ततो नरकादुद्धृत्य तस्यामेवाटव्यां क्षीरपर्वतगुहायां सिंहो जातः । स च भ्रमन् कथमपि सम्प्राप्तस्तस्य मुनेः समीपे ततः समुच्छलितपूर्ववैरेण तेन विनाशितः स मुनिः समाधिना कालं कृत्वा निबद्धतीर्थङ्करनामकर्मा प्राणतकल्पे महाप्रभे विमाने उत्पन्नो विंशतिसागरोपमायुर्देवः । सोऽपि सिंहो बहुलसंसारं भ्रान्त्वा कर्मवशाद् ब्राह्मणो जातः । तत्रापि पापोदयवशेन जातमात्रस्य तस्य पितृमातृभ्रातृप्रमुखः सकलोऽपि स्वजनवर्गः क्षयं गतः, स च दयापरेण लोकेन जीवितः । सम्प्राप्तयौवनोऽपि कुरूपो दुर्भगो दुःखेन वृत्तिं कुर्वन् वैराग्यमुपगतो वने कन्दमूलफलाहारस्तापसो जात:, करोति च बहुप्रकारमज्ञानतपोविशेषम् ।
इतश्च स कनकप्रभचक्रवर्तिदेवः प्राणतकल्पाच्चैत्रकृष्णचतुर्थ्यां च्युत्वा इहैव जम्बूद्वीपे भरते क्षेत्रे काशीदेशे वाराणस्यां नगर्यामश्वसेनस्य राज्ञा वामादेव्याः कुक्षौ मध्यरात्रिसमये विशाखानक्षत्रे त्रयोविंशतितमतीर्थङ्करत्वेन समुत्पन्नः । तस्यामेव रात्रौ सा वामादेवी चतुर्दशस्वप्नान् ददर्श, निवेदयामास च राज्ञः । तेनापि राज्ञातीवानन्दमुद्वहता भणितम् - प्रिये ! सर्वलक्षणसम्पूर्णः सर्वकलाकुशलस्तव पुत्रो भविष्यति । तद्वचः श्रुत्वा सुष्ठुतरं परितुष्टा सा । प्रभाते च राज्ञा स्वप्नपाठकानाहूय तान् यथार्थानाचख्यौ । तेऽपि पूर्णं स्वप्नाध्यायं सविस्तरमाख्याय चतुर्दशस्वप्नानां फलमेवमाहुः - तीर्थङ्करमाता चक्रवर्ति