________________
[ ४१
२३, केशिगौतमीयाख्यमध्ययनम् ]
समं सम्मेतशिखरे चैत्यवन्दनार्थं प्रस्थितः । सागरदत्तसार्थवाहेन पृष्टम्, भगवन् ! क्व गमिष्यसि ? यतिनोक्तं तीर्थयात्रायाम् । सार्थवाहेनोक्तं कीदृशो भवतां धर्मः ? मुनिना कथितो दयादानविनयमूलः सविस्तरस्तस्य धर्मः, तं श्रुत्वा स सार्थवाहः श्रावको जातः, क्रमेण महाटवीं प्राप्तः । यत्र स मरुभूतिजीवः करी जातोऽस्ति, तत्र महासरोवरं दृष्ट्वा तत्तीरे सार्थ उत्तीर्णः ।
अत्रान्तरे तस्मिन्नैव सरसि बहुहस्तिनीपरिवृतः स करी जलपानार्थमागतो जलं सविलासं पीत्वा पालमारूढः सर्वत्र चक्षुर्विक्षिपन् सार्थं दृष्ट्वा तद्विनाशनार्थं त्वरितं धावितः । तं च तथागच्छन्तं दृष्ट्वा सार्थजना इतस्ततः प्रणष्टाः, मुनिस्त्ववधिना ज्ञात्वा स्वस्थाने स्थितः कायोत्सर्गेण, तेन करिणा सर्वं सार्थप्रदेशं भ्रमता दृष्टः स महामुनिः, तदभिमुखं स धावितः । आसन्नप्रदेशे गत्वा तं पश्यन्नुपशान्तकोपोऽसौ निश्चलः स्थितः । तथारूपं तं दृष्ट्वा तत्प्रतिबोधार्थं पारितकायोत्सर्गो मुनिरेवमूचे । भो मरुभूते ! किं न त्वं स्मरसि मामरविन्दनरपतिमात्मनः पूर्वभवं वा ? एतन्मुनिवचः श्रुत्वा स करी सञ्जातजातिस्मरणः पतितो मुनिचरणयोः । मुनिनापि सविशेषदेशनाकरणपूर्वं स श्रावकः कृतः । ततः प्रणम्य सकरी स्वस्थानं गतः ।
अत्रान्तरे उपशान्तं तं करिणं दृष्ट्वा साश्चर्यः सार्थजनः पुनस्तत्र मिलितः, प्रणम्य च मुनिचरणयुगलं प्रतिपन्नवान् दयामूलं श्रावकधर्मम् । ततः कृतकृत्यः सर्वोऽपि सार्थो मुनिश्च स्वस्वाचारनिरतो विजहार । इतश्च स कमठपरिव्राजको मरुभूतिविनाशनेनाप्यनिवृत्तवैरानुबन्धो निजायुःक्षये मृत्वा समुत्पन्नः कुर्कुटसर्पः, विन्ध्यावनौ परिभ्रमता तेन दृष्टः स हस्ती पङ्कनिमग्नः, पूर्ववैरोल्लासेन कुम्भस्थले दष्टः, तद्विषवेदनामनुभवन्नपि श्रावकत्वात् क्षमावान् मृत्वा समुत्पन्नः सहस्त्रारकल्पे देवः । कुर्कुटसर्पोऽपि समये मृत्वा सप्तदशसागरोपमायुः पञ्चमनरकपृथिव्यां नारकः सञ्जातः ।
इतश्च स हस्तिदेवश्च्युत इहैव जम्बूद्वीपे पूर्वविदेहे कच्छविजये वैताढ्यपर्वते तिलकानगर्यां विद्युद्गतिविद्याधरस्य भार्यायाः कनकतिलकायाः किरणवेगो नाम पुत्रो जातः । स च तत्र क्रमागतराज्यमनुपाल्य सुगुरुसमीपे प्रव्रजितः, एकत्वविहारी चारणश्रमणो जातः । अन्यदाऽऽकाशविहारेण स गतः पुष्करद्वीपे, तत्र कनकगिरिसन्निवेशे कायोत्सर्गेण स्थितः किञ्चित्तपः कर्तुमारब्धः ।
इतश्च स कुर्कुटसर्पजीवो नरकादुद्धृत्य तस्यैव कनकगिरेः समीपे सञ्जातो महोरगः, तेन स मुनिर्दृष्टो दष्टश्च । विधिना कालं कृत्वाऽच्युतकल्पे जम्बूदुमावर्त्तविमाने देवो जातः । सोऽपि महोरगः क्रमेण कालं कृत्वा पुनरपि सप्तदशसागरोपमायुः पञ्चमपृथिवीनारको जातः, किरणवेगदेवोऽपि ततश्च्युत्वेहैव जम्बूद्वीपेऽपरविदेहे सुगन्धविजये शुभङ्करानगर्यां वज्रवीर्यराज्ञोऽक्षिमताया भार्याया वज्रनाभनामा पुत्रः समुत्पन्नः । सोऽपि तत्र क्रमागतं राज्यमनुपाल्य दत्तचक्रायुधनामस्वपुत्रराज्य : क्षेमङ्करजिनसमीपे प्रव्रजितः । तत्र विधिना