________________
॥२३ केशिगौतमीयाख्यमध्ययनम् ॥ द्वाविंशतितमेऽध्ययने उत्पन्नविश्रोतसि केनापि रथनेमिवदतिश्चरणे विधेयेति कथितम् । अथ त्रयोविंशतितमेऽध्ययने ज्ञानिना परेषामपि चित्ते संशयं ज्ञात्वा संशयो दूरीकर्तव्यः केशिगौतमवदित्याह-'जिणे पासित्ति नामेणं' इत्यस्यां माथायां कथितोऽयं पार्श्वनामा तीर्थङ्करः, कस्मिन् भवे चानेन तीर्थङ्करनामकर्म निबद्धमिति सकौतुकश्रोतृवैराग्योत्पादनार्थं पार्श्वनाथचरित्रमुच्यते
इहैव जम्बूद्वीपे भरते क्षेत्रे पोतनपुरे नगरेऽरविन्दो नाम राजा, तस्य विश्वभूतिर्नामा पुरोहितः, स श्रावकोऽस्ति, तस्य द्वौ पुत्रौ, कमठो मरुभूतिश्च । तयोः क्रमेण भार्या वरुणा वसुन्धरा च । तयोः कमठमरुभूत्योः शिरसि गृहकार्यभारं विन्यस्य स्वयं धर्मं कुर्वाण: क्रमेण कालं कृत्वा विश्वभूतिर्देवलोकं गतः । तद्भार्याऽनुद्धरी विशेषतपःकरणेन शोषितशरीरा मृता । कमठोऽपि कृतमातृपितृप्रेतकार्यः पुरोहितो जातः । मरुभूतिरपि प्रायो ब्रह्मचारिकृत्योद्यतः सम्पन्नः । तस्य भार्या मनोहरा, तस्याश्च यौवनोभेदं दृष्ट्वा कमठस्य चित्तं चलितम्, तां सविकारलोचनाभ्यां स पश्यति । सापि कामविरहमसहन्ती तं सविकारं पश्यति । उभयोभृशं रङ्गोल्लासेऽनाचारप्रवृत्तिर्जाता, मरुभूतिनापि सामान्यतो ज्ञाता । विशेषज्ञानाय तस्याः कमठस्य च पुरोऽहं ग्रामान्तरं यास्यामीत्युक्त्वा निजमन्दिराब्दहिर्गत्वा सन्ध्यासमये कार्पटिकरूपं कृत्वा स्वरभेदेन कमळं प्रत्येवं बभाण। हे महानुभाव ! निराहारस्य मम शीतत्राणाय किञ्चिन्निवासस्थानं देहि ? अविज्ञातपरमार्थेन कमठेन भणितमहो कार्पटिक ! अत्र चतुर्हस्तमध्ये स्वच्छन्द निवस । ततस्तत्र रात्रौ स्थितो मरुभूतिस्तयोः सर्वमनाचारस्वरूपमालोक्येापरवशो जातः । परं लोकापवादभीरुत्वान्न तयोः प्रतीकारं चकार।
__ प्रभाते च राजान्तिके गत्वा सर्वं तयोः स्वरूपं यथास्थितमाख्यातवान् । राज्ञा च कुपितेन समादिष्टाः स्वपुरुषाः, तैर्डिण्डिमास्फालनपूर्वं गलारोपितशरावमालः खरारूढः कमठः सर्वतो नगरे भ्रामितः, भ्रातृजायाभोगकार्ययमिति जनानां पुरो निर्घोषं कृत्वा स नगरान्निष्कासितः । ततः सञ्जातामर्षः कमठोऽपि समुत्पन्नवैराग्यो गृहीतपरिव्राजकलिङ्गो दुष्करं तपः कर्तुं लग्नः । तं च वृत्तान्तं ज्ञात्वा मरुभूतिः सञ्जातपश्चात्तापः स्वापराधक्षामणाय तस्यान्तिके गत्वा पादयोः पपात । कमठोऽपि तदानीं समुत्पन्नपूर्ववैरोल्लासेन मरुभूतेर्मून उपरि महाशिला पातितवान् । ततो मरुभूतिस्तस्याः प्रहारेणारटन् कालं कृत्वा विन्ध्याचले बहुयूथाधिपतिः करी समुत्पन्नः ।
इतश्चारविन्दराजा कदाचिच्छरत्काले सान्तःपुरः प्रासादोपरि स्थितः क्रीडन् शरदभ्रं सुस्निग्धं प्रच्छादितनभःस्थलं मनोहरं ददर्श । पुनस्तत्क्षणादेव वायुना विलीनं तदभ्रं पश्यन् दृष्टान्तावष्टम्भेन सर्वेषां भावानां क्षणभङ्गुरतां भावयन् समुत्पन्नावधिज्ञानः परिजनेन ध्रियमाणोऽपि दत्तनिजपुत्रराज्यः स प्रव्रजितः । अन्यदा स राजर्षिविहरन् सागरदत्तसार्थवाहेन