________________
२२, रथनेमीयमध्ययनम्]
[३९ सरथनेमिरिन्द्रियाणि वशीकृत्यात्मानमुपसंहरति स्थिरं करोति, विषयेभ्यो निवारयति । किं कृत्वा ? क्रोधं मानं मायां च पुनः सर्वथा लोभं निगृह्याऽत्यन्तं जित्वा, एवं रथनेमिरात्मानं धर्मे दृढं चकार । एतदेवोक्तं दृष्टान्तेन दृढयति-तस्या-राजीमत्याः संयत्याः-साध्व्याः सुभाषितेन स रथनेमिः पूर्वं धर्माभ्रष्टो धर्म सम्प्रतिपातितो-धर्म्य मार्गे स्थापितः । केन क इव ? अङ्कुशेन नाग इव, यथाङ्कुशेन नागो-हस्ती मार्गाद्दष्टो मार्गे स्थाप्यते, तथा रथनेमिरपि ॥ ४७ ॥ ४८ ॥
मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ।
सामण्णं निच्चलं फासे, जावज्जीवं दढव्वओ ॥ ४९ ॥ यदा स साधुमार्गे स्थिरोऽभूत्तदा कीदृशोऽभूदित्याह-मनसा गुप्तो मनोगुप्तः, तथा वचसा गुप्तो वचोगुप्तो गुप्तवाक्, तथा पुनः कायेन गुप्तः कायगुप्तो गुप्तकायः, इति गुप्तित्रयसहितः । पुनः कीदृशः ? जितेन्द्रियो वशीकृतेन्द्रियः, एतादृशो रथनेमिर्यावज्जीवं दृढव्रतः सन् श्रामण्यं-चारित्रधर्मं निश्चलं यथास्यात्तथा स्पृशति, सम्यक् क्रियानुष्ठानेन पालयति ॥ ४९॥
उग्गं तवं चरित्ताणं, जाया दुन्निवि केवली ।
सव्वं कम्मं खवित्ताणं, सिद्धि पत्ता अणुत्तरं ॥५०॥ अनुक्रमेण तौ द्वावपि राजीमतीरथनेमी केवलिनौ जातौ । किं कृत्वा ? उग्रमन्यैः कर्तुमशक्यं तपश्चरित्वा तपः कृत्वा, अनुक्रमेण च सर्वाणि कर्माणि क्षपयित्वा, पुनस्तावनुत्तरां-सर्वोत्कृष्टां सिद्धि-मोक्षगति प्राप्तौ ॥५०॥
एवं करंति संबुद्धा, पंडिया पवियक्खणा ।
विणियटृति भोगेसु, जहा से पुरिसुत्तमु ॥५१॥त्तिबेमि पण्डितास्तत्त्वमतियुक्ताः, प्रकर्षेण विचक्षणा विवेकिनः पुरुषा भोगेभ्यो विशेषेण निवर्तन्ते, कथञ्चिच्चेतसि विकारे समुत्पन्नेऽपि पुनः कस्यचिद्धर्मात्मनः पुरुषस्य धर्मोपदेशधारणेन चित्तं निरून्थ्य भोगेभ्यो निवर्तन्ते । क इव ? यथा स रथनेमिः पुरुषोत्तमः पूर्वं चञ्चलचित्तो भूत्वा पुनर्धर्मोपदेशाद्धर्मे स्थिरचित्तो बभूव । तथान्यैरपि निश्चलचित्तैर्भवितव्यमिति, न तु चञ्चलचित्तेन भाव्यमित्यहं ब्रवीमीति श्रीसुधर्मास्वामी जम्बूस्वामिनमाहहे जम्बू ! अहं भगवद्वचसेति ब्रवीमि ॥५१ ॥
इति रथनेमीयं द्वाविंशतितमध्ययनं सम्पूर्णम् ॥ २२ ॥
इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां द्वाविंशतितमस्याध्ययनस्यार्थः सम्पूर्णः ॥२२॥