________________
४४]
[उत्तराध्ययनसूत्रे-भाग-२ ततः स चिन्तितुं प्रवृत्तो धन्यः सोऽरिष्टनेमिर्यो विरसावसानं विषयसुखमाकलय्य निर्भरानुरागां निरुपमरूपलावण्यां जनकवितीर्णा राजकन्यां च त्यक्त्वा भग्नमदनमण्डलप्रचारः कुमार एव निष्क्रान्तः । ततोऽहमपि करोमि सर्वसङ्गपरित्यागम् । अत्रान्तरे लोकान्तिका देवास्तत्रागत्य भगवन्तं प्रतिबोधयन्ति स्म । त्रिंशद्वर्षाणि गृहस्थवासेऽसौ स्थितः, ततो मार्गणगणस्य यथोचितं सांवत्सरिकदानं दत्वा भगवान् मातृपित्राद्यनुज्ञया महामहःपूर्वमाश्रमपदोद्यानेऽशोकपादपस्याधः पौषकृष्णैकादशीदिने पूर्वाह्नसमये पञ्चमौष्टिकं लोचं कृत्वा अपानकेनाष्टमभक्तेनैकं देवदूष्यमादाय त्रिभिः पुरुषशतैः समं निष्क्रान्तः । अथ श्रीपाश्र्थो भगवान विहरनेकदा वटपादपाध: कायोत्सर्गेण स्थितः । इतश्च स कमठजीवो मेघमाली असुरोऽवधिना ज्ञात्वाऽऽत्मनो व्यतिकरं, स्मृत्वा च पूर्वभववैरकारणं समुत्पन्नतीव्रामर्षः समागतस्तत्र । प्रारब्धास्तेनानेकसिंहादिरूपैरनेके उपसर्गाः, तथापि भगवान् श्रीपार्थोऽक्षुब्धो धर्मध्यानान्न चलितः । तादृशं तं ज्ञात्वा कमठ एवं चिन्तयामास, अहमेनं जलेन प्लावयित्वा मारयामीति ध्यात्वा भगवदुपरिष्टान्महामेघवृष्टिं चकार । जलेन भगवदङ्गं नाशिकां यावद्व्याप्तम् ।।
अत्रान्तरे कम्पितासनेन धरणेन्द्रेणावधिना ज्ञातभगवद्व्यतिकरण समागत्य स्वामिशीर्षोपरिफणाटोपं कृत्वा फणिशरीरेण भगवच्छरीरमावृत्य जलोपसर्गं च निवार्य भगवत्पुरो वेणुवीणागीतनिनादैः प्रवरं प्रेक्षणं कर्तुमारब्धवान् । कमठासुरस्तादृशमक्षोभ्यं भगवन्तं धरणेन्द्रकृतमहिमानं च दृष्ट्वा समुपशान्तदर्पो भगवच्चरणौ प्रणम्य गतो निजस्थाने । धरणेन्द्रोऽपि भगवन्तं निरुपसर्ग ज्ञात्वा स्तुत्वा च स्वस्थानं गतवान् । पार्श्वस्वामिनो निष्क्रमणदिवसाच्चतुरशीतितमे दिवसे चैत्रकृष्णाष्टम्यामष्टमभक्तेन पूर्वाह्नसमयेऽशोकतरोरधः शिलापट्टे सुखनिषणस्य शुभध्यानेन क्षीणघातिकर्मचतुष्कस्य सकललोकावभासि केवलज्ञानं समुत्पन्नम् । चलितासनैः शक्रैस्तत्रागत्य केवलज्ञानोत्सवो महान् कृतः । पार्थोऽर्हन् सप्तफणानां लाञ्छनो वामदक्षिणपार्श्वयोर्वैरोट्याधरणेन्दाभ्यां पर्युपास्यमानः प्रियङ्गुवर्णदेहो नवहस्तशरीरो भव्यसत्त्वान् प्रतिबोधयन् चतुस्त्रिंशदतिशयसमेत: पृथिवीमण्डले विहरति ।
पार्श्वभगवतो दश गणधरा अभवन् ।आर्यदिन्नप्रमुखाः षोडशसहस्रसाधवोऽभवन् । पुष्पचूलाप्रमुखा अष्टत्रिंशत्सहस्रार्यिका अभवन् । सुव्रतप्रमुखाः श्रमणोपासका एकं लक्षं चतुष्षष्टिसहस्राश्चाभवन् । सुनन्दाप्रमुखाः श्रमणोपासिका लक्षत्रयं सप्तविंशतिसहस्राश्चाभवन् । सार्धत्रीणि शतानि चतुर्दशपूर्विणामभवन् । अवधिज्ञानिनां चतुर्दशशतानि, केवलज्ञानिनां दशशतानि, वैक्रियलब्धिमतामेकादशशतानि, विपुलमतीनां सार्धत्रीणि शतानि, वादिनां षट्शतानि, अन्तेवासिनां दशशतानि सिद्धि गतानि, आर्यिकाणां विंशतिशतानि सिद्धानि, अनुत्तरोपपातिकानां द्वादशशतान्यभवन् । श्रीपार्श्वनाथस्यैषा परिवारसम्पदभूत् । १ पौषशुद्धैकादशीदिने इति मु० ॥