________________
२८ ]
[ उत्तराध्ययनसूत्रे - भाग - २ दृष्ट्वा, इन्द्रियाणां च दुर्दान्ततयाऽनादिभवाभ्यस्ततया च विषयाभिप्रायेण स परवशो जात:, तादृशो रथनेमिश्च तया दृष्टः । ततो भयभ्रान्ता सा सद्य आत्मानं प्रावृत्य बाहुभ्यां सगोप्य च स्थिता । तेन भणिता हे सुतनु ! तवानुरागवशेनाहमिदं शरीरमरतिपरिमत्तं धर्तुं न शक्नोमि । ततः कृत्वानुग्रहं प्रतिपद्यस्व मया समं विषयसेवनं, पश्चात् सञ्जातमनः समाधी आवां निर्मलं तपःसंयमं चरिष्यावः । तयापि साहसमवलम्ब्य प्रगल्भवचनैः स भणितः, महाकुलप्रसूतस्य तव किमिदं युक्तं स्वयं प्रतिपन्नस्य व्रतस्य भञ्जनम् ? जीवितमपि सत्पुरुषास्त्यजन्ति, न पुनर्व्रतलोपं कुर्वन्ति । ततो महाभाग ! मनः समाधिं कृत्वा चिन्तय विषयविपाकदारुणत्वं शीलखण्डनस्य नरकादिकं च फलं न च विषयसेवनेन मन:समाधिः, किन्तु भूरितराऽरतिर्भविष्यति । विषयसेवनेन लब्धप्रसरस्य मनसः प्रकाममिच्छा वर्धते, उक्तं च
""भुत्ता दिव्वा भोगा, सुरेसुं तह य मणुएसुं ।
न य संजाया तत्ति, अतत्तिरंकस्सवि जीअस्स ।। १ ।। "
इत्यादिवाक्यैस्तयाऽनुशासितः स सम्बुद्धः सम्यगहं प्रतिबोधितस्त्वयेति भणान्नात्मानं निन्दयित्वा, राजीमतीं च भृशं स्तुत्वा स गतः साधुसभामध्ये, साऽपि च साध्वीसभामध्ये गतेति । अरिष्टनेमिर्भगवान् मरकतसमवर्णो दशधनुरुच्छ्रितदेहः शङ्खलाञ्छनस्त्रीणि वर्षशतानि गृहवासे स्थितः, चतुष्पञ्चाशद्दिनानि छाद्यस्थ्ये स्थितः, चतुष्पञ्चाशद्दिनोनानि सप्तशतवर्षाणि केवलपर्यायेण विहृत्यानेकभव्यान् प्रतिबोध्य च सर्वं वर्षसहस्रायुः परिपाल्य रैवतगिरावाषाढशुद्धाष्टम्यां सिद्धिं गतः । क्रमेण रथनेमिराजीमत्यावपि सिद्धि जग्मतुः । इत्यरिष्टनेमिचरित्रम् ।
सूत्रमग्रे लिख्यते -
सोरियपुरंमि नयरे, आसि राया महड्डिए ।
वसुदेवत्ति नामेणं, रायलक्खणसंजु ॥ १ ॥
सौर्यपुरे नाम्नि नगरे वसुदेव इति नाम्ना राजासीत् । यद्यपि सौर्यपुरे समुद्रविजयप्रमुखा दश दशार्हा भ्रातरो विद्यन्ते तेषु दशसु लघुर्भ्राता वसुदेवोऽस्ति, वसुदेवपुत्रो विष्णुरभूत्, तेन वसुदेवस्यैव वर्णनं कृतम् । कीदृशो वसुदेवः ? महर्द्धिकः, छत्रचामरादिविभूतियुक्तः, पुनः कीदृश: ? राजलक्षणसंयुतः, हस्तपादयोस्तलेषु राज्ञो लक्षणानि चक्र-स्वस्तिकाङ्कुश-वज्र-ध्वज-च्छत्र - चामरादिभिः सहितः, अथवौदार्यधैर्यगाम्भीर्यादिसहितः ॥ १ ॥ तस्स भज्जा दुवे आसि, रोहिणी देवई तहा ।
ताय दोपि दो पुत्ता, अइट्ठा रामकेसवा ॥ २॥
१ भुक्ता दिव्या भोगाः, सुरेषु तथा च मनुष्येषु ।
न च सञ्जाता तृप्ति - रतृप्ती रङ्कस्याऽपि जीवस्य ॥ १ ॥