________________
[२९
२२, रथनेमीयमध्ययनम्]
तस्स वसुदेवस्य द्वे भार्ये आस्ताम्, रोहिणी तथा देवकी । यद्यपि वसुदेवस्य द्वासप्ततिसहस्रं दारा आसन्, तथाप्यत्रोभयोरेव कार्यादोहिणीदेवक्योरेव ग्रहणं कृतम् । तयो रोहिणीदेवक्योईयोद्वौ पुत्रावभूताम् । तौ पुत्रौ कौ ? राम-केशवौ, कीदृशौ तौ ? अभिष्टौ मातापित्रोरधिकवल्लभौ ॥२॥
सोरियपुरंमि नयरे, आसि राया महड्डिए ।
समुद्दविजए नामं, रायलक्खणसंजुए ॥ ३ ॥ सौर्यपुरेनगरेसमुद्रविजयो राजा महर्द्धिक आसीत् । कीदृशः समुद्रविजयः? राजलक्षणसंयुक्तः, अत्र पुनः सौर्यपुराभिधानं समुद्रविजयवसुदेवयोरेकत्रावस्थितिदर्शनार्थम् ॥३॥
तस्स भज्जा सिवानाम, तीय पुत्ते महायसे ।
भयवं अरिट्ठनेमित्ति, लोगनाहे दमीसरे ॥ ४ ॥ तस्य समुद्रविजयस्य राज्ञः शिवानाम्नी भार्यासीत्। तस्याः शिवादेव्याः पुत्रो भगवानैश्वर्यधारी अरिष्टनेमिरासीत् । चतुर्दशस्वप्नदर्शनानन्तरमेकमरिष्टरत्नमयं रथचक्रं सा ददर्श, तेनारिष्ठनेमिरिति नाम प्रदत्तम्।कथंभूतोऽरिष्टनेमिः?महायशा-महाकीर्तिः, पुनः कीदृशोऽरिष्टनेमिः ? लोकनाथश्चतुर्दशरज्जुप्रमाणलोकप्रभुः । पुनः कीदृशोऽरिष्टनेमिः ? दमीश्वरः, कुमारत्वेऽपि येन कन्दर्पो जितः । तस्माद्दमिनां जितेन्द्रियाणामीश्वरो दमीश्वरः ॥४॥
सोरिट्ठनेमिनामो उ, लक्खणस्सरसंजुओ ।
अट्ठसहस्सलक्खणधरो, गोयमो कालगच्छवी ॥५॥ अथारिष्टनेमेवर्णनमाह-सोऽरिष्टनेमि मा भगवानष्टसहस्रलक्षणधरो वर्तते, अष्टभिरधिकं सहस्रमष्टसहस्रम्, लक्षणानामष्टसहस्रं लक्षणाष्टसहस्रम्, तद्धरतीति लक्षणाष्टसहस्त्रधरः, अष्टसहस्त्रलक्षणानि धरतीति वाऽष्टसहस्रलक्षणधरः । पुनः कीदृशः? लक्षणस्वरसंयुतः, लक्षणैः सहितः स्वरो लक्षणस्वरस्तेन संयुतः, स्वरस्य लक्षणानि माधुर्यलावण्याऽव्याहतगार्भीयादीनि, तैः संयुतः, तीर्थङ्करस्य हि अष्टाधिकसहस्रलक्षणानि शरीरे भवन्ति । स्वस्तिक-वृषभ-सिंह-श्रीवत्स-शङ्खचक्रगजाश्वच्छत्राब्धिप्रमुखाणि लक्षणानि हस्तपादादौ भवन्ति । पुनः कीदृशोऽरिष्टनेमिः ? गौतमो गौतमगोत्रीयः, पुनः कीदृशः ? कालकच्छवि: श्यामकान्तिः ॥५॥
वज्जरिसहसंघयणो, समचउरंसो झसोयरो ।
तस्स राइमईकण्णं, भज्जं जायइ केसवो ॥६॥ पुनः कीदृशः सः ? वजं-कीलिका, ऋषभ:-पट्टः, नाराच-उभयपार्श्वयोमर्कटबन्धः एभिः संहननं-शरीररचना यस्य स वज्रर्षभनाराचसंहननः । पुनः कीदृशः ? समचतुरस्त्रः